________________
[९९
तृतीयः पल्लव:]
तत्र सङ्केतवेलायां, नागतः स सुदर्शनः । दुर्गकाङ्गेऽन्धकारेऽथ, लग्नस्तस्याः करस्तदा ॥२९८॥ तया ज्ञातं वरो ह्येष, तमुत्थाप्य ततोऽस्य च । परिधाप्य वरं वस्त्रं, सा शृङ्गारमचीकरत् ॥२९९॥ हारार्धहारकेयूरकुण्डलादीनि तत्तनौ । धृत्वा दास्या तयोः शीघ्रं, कृतः पाणिग्रहोत्सवः ॥३००। स्वदासी प्रति साऽप्यूचे, पूर्णो मेऽद्य मनोरथः । दूती स्माह कृतं भव्यं, प्रमाणं ह्यग्रतो विधिः ॥३०१॥ आलापयद्यदा सा तं, प्रोचेऽसौ दुर्गकस्तदा । अनीदृशस्वरं श्रुत्वा, ज्ञातं नासौ सुदर्शनः ॥३०२।। मन्त्रिपुत्री पुन प्रोचे, कोऽसि त्वं वद सत्वरम् । सोऽवादीदुर्गकोऽहं रे, साऽथोद्योतमकारयत् ॥३०३।। प्रकाशे स तया दृष्टो, दरिद्रो दुर्गकः कृशः । विलक्षाऽभूत् तदा मन्त्रिपुत्री सुभगसुन्दरी ॥३०४॥ विधुरा विललापोच्चैर्हा दग्धाऽहं च वञ्चिता । परिणीतो दरिद्रोऽसौ, नागात् सङ्केतितो नरः ॥३०५॥ इति चिन्तापरा शीघ्रं, गता सा निजसद्मनि । विना नीरं यथा मीनो, न रतिं प्राप सा निशि ॥३०६।। जनन्याः कथितः सर्वः, स वृत्तान्तस्तया तदा । तयाऽपि भाषितं पुत्र्याः, स्वरूपं भर्तुरग्रतः ॥३०७।। इतश्च तत्पुरे राजा, श्रीविक्रमधनोऽभवत् । अनङ्गकेलिसदनमनङ्गश्रीः सुताऽस्य च ॥३०८।। तस्मिन्नेव दिने कस्यचित् सामन्तसुतस्य च । विवाहविषये च्छन्नः, सङ्केतः कारितस्तया ॥३०९।। रात्रौ गृहोर्ध्वभूमौ सा दीपं कृत्वा तमोभरे । गवाक्षे मञ्चिकां मुक्त्वा, व्यलोकयद् वरागमम् ॥३१०।।