________________
९८]
[धर्मकल्पद्रुमः इत्थं श्रुत्वा प्रमोदेन, राजन् ! नृत्यं करोम्यहम् । श्रुतायां लाभवार्तायां, हर्षः कस्य न जायते ? ॥२८५॥ इति श्रुत्वा स भूमीभृत् , तं चालोक्य व्यचिन्तयत् । अहो अनीदृशो नि:स्वो, विरूपो दृश्यते नरः ॥२८६।। अद्य वार्ता श्रुताऽवश्यं, निन्द्यस्य वणिजोऽपि च । जातेच्छा राजकन्यानामहो लोभविजृम्भितम् ॥२८७।। चिन्तयित्वेति भूपालो, गूढकोपो गृहं ययौ । पुरे चाघोषयच्छीघ्रं, सर्वत्रैवेति डिण्डिमम् ॥२८८॥ अद्य घस्रात् पञ्चदिनी मुद्गान् बाह्यागतान् पुरे । ग्रहीष्यति हि यस्तस्य, राजदण्डो भविष्यति ॥२८९।। दुर्गकोऽप्यथ सोत्साहो, गृहीत्वा मुद्गपोट्टलम् । आगतो नगरीमध्ये, बभ्राम च चतुष्पथे ॥२९०॥ हट्टेषु दर्शिता मुद्ग-वर्णिका तु नृपाज्ञया । मुद्गान् कोऽपि न गृह्णाति, न लोप्यं नृपशासनम् ॥२९१।। चतुष्पथेषु सर्वेषु , भ्रान्त्वा भ्रान्त्वाऽखिलं दिनम् । स खिन्नः खेदसंयुक्तः, सुप्तः शून्यापणे क्वचित् ॥२९२।। उच्छीर्षे पुट्टलं दत्त्वा, मुक्त्वा नि:श्वासमुच्चकैः । किञ्चिन्निद्रो निराशश्च, निशां निर्गमयत्यसौ ॥२९३।। इतश्चास्ति पुरे तस्मिन् सुमतिः सचिवोऽस्य च । सौभाग्यसुन्दरी भार्या, सुता सुभगसुन्दरी ॥२९४।। सा च यौवनसम्पूर्णा, सञ्जाता जनमोहिनी । इतश्चास्ति पुरे तस्मिन्निभ्यसूनुः सुदर्शनः ॥२९५।। सद्रूपे तस्य सा रक्ता, प्रच्छन्नं पाणिपीडने । दूत्या मुखेन विज्ञाप्य, सङ्केतस्तद्दिने कृतः ॥२९६।। ततः सामग्रिकां सर्वां, गृहीत्वा सा महानिशि । ययौ शून्यापणे तत्र, यत्र सुप्तोऽस्ति दुर्गकः ॥२९७।।
15