________________
तृतीयः पल्लवः]
[९७ यतः- कन्यागोशङ्खभेरीदधिफलकुसुमं पावको दीप्यमानो,
नागेन्द्रोऽश्वो रथो वा नृपतिरभिमुखः पूर्णकुम्भो ध्वजो वा । उत्क्षिप्ता चैव भूमिर्जलचरयुगलं सिद्धमन्नं शतायुर्वेश्यास्त्रीमद्यमांसं हितमपि गदितं मङ्गलं प्रस्थितानाम् ॥२७३॥ पृष्टे दुर्गाविचारेऽथ, स सिद्धः पुनरब्रवीत् । दुर्गा वामा प्रयाणे तु , शुभा सौख्यधनप्रदा ॥२७४॥ सुस्थानस्था विशेषेण, राज्यादिसुखदायिका । एवं निशम्य चोत्थायोत्साहान्ननत दुर्गकः ॥२७५॥ स्मित्वा सिद्धेन पृष्टोऽसौ कथं नृत्यसि ? भो नर ! । उवाच दुर्गकः स्वामिन् !, शृणु स्वोत्कर्षकारणम् ॥२७६।। 10 प्रोक्ताः प्रशस्ताः शकुनास्त्वया मे, ममाभवंस्ते पुनरीदृशाऽभूत् । दुर्गाप्यतोऽहं प्रकरोमि नृत्यं, भव्यं फलं प्राप्स्यति दुर्गको यत् ॥२७७।। विज्ञोऽपि पुनरप्यूचे, दुर्गाशकुनभावतः । कन्यायुग्मं च सद्राज्यं, त्वमद्य प्राप्स्यसे ध्रुवम् ॥२७८।। एवं श्रुत्वाऽग्रतो गत्वा, पुनर्ननत दुर्गकः । शुभं श्रुत्वा नराः क्षीणाः, प्रायो हर्षन्ति सर्वतः ॥२७९॥ इत्थं विकलवत्तस्मिन्नृत्यं कुर्वति हर्षतः । तत्रागाद्विक्रमधनो, राजाऽकस्माच्चमूवृतः ॥२८०॥ तं नृत्यन्तं नरं वीक्ष्य, हेतुं पप्रच्छ भूपतिः । स ऊचे शृणु भूमीश !, मम नृत्यस्य कारणम् ।।२८१।। मुद्गपोट्टलमुत्पाट्य, मार्गेऽद्यागच्छतो मम । सञ्जाताः शकुनाः सौम्याः, सद्भाग्योदययोगतः ॥२८२।। विश्रान्तोऽहं वने खिन्नो, दृष्टस्तत्र निमित्तवित् । शकुनार्थे मया पृष्टे, तेनेत्थं कथितं मम ॥२८३।। प्रशस्ताः शकुना दृष्टा, दुग्र्गाशब्दानुभावतः । अद्यैव कन्यकायुग्मयुक्तं राज्यमवाप्स्यसि ॥२८४।।
20
25