________________
१६]
[धर्मकल्पद्रुमः यद्यत् क्रयाणकं सोऽथ, गृह्णीयात्तस्य तस्य न । लाभः स्वल्पोऽपि हानिस्तु , घना भवति कर्मतः ॥२६०॥ अथैकस्मिन दिने तस्य. मस्तके न्यस्त(स्य) पटलम । व्रजतो मिलितौ मार्गे, द्वौ मुनीशौ मनोहरौ ॥२६१॥ सत्कर्मपरिणामेन, तेनाप्ता साधुसङ्गतिः । अग्रे हि यादृशी सिद्धिर्योगो भवति तादृशः ॥२६२॥ वन्दित्वा मुनियुग्मं तत् , धर्मं पप्रच्छ दुर्गकः ।
धर्मोपदेश एकेन, साधुना दत्त ईदृशः ॥२६३॥ यतः- जिनभक्तिर्गुरुनमनं, दानं शीलं तपः श्रुतं ध्यानम् ।
संवेगश्च प्रत्यहमिति कार्यं श्रावकैः सद्भिः ॥२६४॥ ततो गुरूपदेशात् स, नित्यं याति जिनालये । त्रिसन्ध्यं पूजयामास, जिनान् विविधवस्तुभिः ॥२६५॥ आवश्यकं द्विसन्ध्यं स, चकार शुभभावतः । परमेष्ठिनमस्कारं, जजाप स्थिरमानसे ॥२६६॥ संविभागञ्च साधूनां, स्वल्पात् स्वल्पतरं व्यधात् । निःस्वत्वसमये ह्यल्पं, कृतं पुण्यं घनं भवेत् ॥२६७॥ सारं श्रीजिनधर्मास्य, दयालुर्विदधे दयाम् । सामग्री प्राप्य धर्मस्य, वेलां शून्यां मुमोच न ॥२६८॥ कियत्यपि गते काले, सोऽन्येधुर्मुद्गपोट्टलम् । नीत्वा बलपुरे गच्छन् , मार्गे तस्थौ क्षणं वने ॥२६९॥ तत्रैकशाखिनोऽधस्तान्निविष्टं धृतपुस्तकम् । दृष्टैकं मानवं दक्षं, तं पप्रच्छेति दुर्गकः ॥२७०।। भो विद्वन्पुस्तके तेऽस्ति, किं शास्त्रं ? वद सूनृतम् । शास्त्रं शकुनसत्कं मे, पुस्तकेऽस्तीति सोऽवदत् ॥२७१॥ कीदृशाः शकुनास्तेषां, किं फलं ? वद सुन्दर ! । दुर्गकेणेति पृष्टः सोऽप्याख्यत् शकुनजं फलम् ॥२७२।।