________________
[१०१
तृतीयः पल्लवः]
आहूय सचिवं चोक्त्वा , पुत्रीवृत्तं नृपोऽवदत् । एकमेव वरं विश्वे, वृणुते कुलबालिका ॥३२४॥ स्वेच्छया यो वृतः पुत्र्या, विलोक्यानय तं वरम् । राज्ञोऽग्रे मन्त्रिणाऽप्युक्तं, पुत्रीविवाहकौतुकम् ॥३२५।। दुर्गकोऽसौ नृपस्याग्रे, समानीतोऽथ मन्त्रिणा । दृष्ट्वा तं चोपलक्ष्योचे, भूपो भद्रत्वमागतः ॥३२६॥ त्वं मुद्गविक्रयी किं न ?, स एवाहं नरोऽवदत् । शकुनाद्यं नृपेणास्य, स्वरूपं मन्त्रिणोऽकथि ॥३२७|| विमृश्य सचिवः प्रोचे, विधिनाऽयं विवाहितः । भवितव्यं भवत्येव, नाभाव्यं भवति क्वचित् ॥३२८॥ यत्पूर्वोपार्जितं कर्म, शुभं भवति वाऽशुभम् ।
विपाको जायते तस्य, जिनेन्द्रैरिति भाषितम् ॥३२९॥ काव्यम्- नैवाकृतिः फलति नैव कुलं न शीलं,
विद्याऽपि नैव न च जन्मकृता च सेवा । भाग्यानि पूर्वतपसा किल सञ्चितानि, काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥३३०॥ सविस्तरं नृपेणास्य, विवाह: कन्ययोर्द्वयोः । कृतो दत्तञ्च जामात्रे, राज्यार्धं करमोचने ॥३३१॥ कृतं सौभाग्यकलश, इति नामास्य भूभुजा । इहलोके सुखी जातः, कृतपुण्यप्रभावतः ॥३३२।। सम्यक् संसेवितो धर्मो, जिनोक्तः करुणान्वितः । इहलोके परत्रापि, सर्वथा फलदायकः ॥३३३॥ अन्यदा नृपतिः प्रोचे, हर्षाज्जामातरं प्रति । शुभास्ते शकुना भद्र ! दृश्यन्ते फलितास्तव ॥३३४।। सौभाग्यकलशोऽप्यूचे, स्वामिन् ! किं शकुनैर्भवेत् ? । एवं यतो मया धर्मो, जिनेन्द्रोक्तः कृतो भृशम् ॥३३५।।