________________
७६
प्रव्रज्याप्रदानम्
भुवनभानवीयमहाकाव्ये
प्राज्यार्जनेऽपि पटवश्च सुशिक्षिताश्च,
यी भाी रवामां दुशणो.. सुशिक्षितो... संसारनागदृढपाशवशीकृताश्च ।
સંસારરૂપી નાગપાશનાં સકંજામાં ફસાયેલા. અરે.. सज्जा विवाहविधयेऽप्यभवन् यतीशाः, વિવાહ માટે સજ્જ થયેલા.. બધાં જ મમત્વ છોડીને छित्त्वा ममत्वमखिलं च समत्वमापुः ।।२४।। समता पाभ्या मने संयमना मा संथा. ||२४|| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(२४) छित्त्वा ममत्वमित्यादि। अथानुचितमिदमभिधानम्, प्रव्रज्याग्रहणविषये प्रक्रान्ते ममत्वछेदनादिवचनात्, न च प्राशस्त्याददोष इति वाच्यम, काव्यप्रबन्धे देशकालाधनौचित्ये दोषध्रौव्यात, तथा चानुशासनम् - 'अकाण्डे प्रथन' मिति काव्यानुशासने।। रसदोषनिरूपणे - ३-३।। न काव्यप्रबन्ध एव, सर्वत्राऽप्यौचित्यमनिवार्यम, प्रधानत्वात, उक्तं च 'उचितानुष्ठानमेव सर्वत्र प्रधान' मिति धर्मबिन्दौ ।।६-५० ।। तद्विना त गुणोऽपि दोषरूप: स्यात, तस्यैव सर्वगुणाधिकत्वात, तदुक्तम् - 'औचित्यमेकमेकत्र गुणानां राशिरकतः। विषायते गुणग्राम औचित्यपरिवर्जित' इतीति चेत
___न, अभिप्रायाऽपरिज्ञानात्, प्रव्रज्याया: सामायिकरूपत्वात्, तस्य च समत्वात्मत्वात्, तदुक्तमावश्यकनिर्युक्तौ- ‘जो समो सव्वभूएसु, तसेसु थावरेसु य। तस्स सामाइयं होइ, इय केवलिभासिय मिति ।।१९।।
अन्यथा तु शुद्धसामायिकाभावः, मायारूपत्वात्, उक्तं च - ‘विना समत्वं प्रसरन्ममत्वं, सामायिकं मायिकमेव मन्ये समानां सति सद्गुणानां, शुद्धं हि तच्छुद्धनया विदन्ती'त्यध्यात्मोपनिषत्प्रकरणे।।४-८ ।। ममत्वछेदं समत्वादृतिं च विना तु प्रव्रज्याग्रहणमप्यकिञ्चित्करम्, उक्तं च ‘धृतो योगो न ममता, हता न समताऽऽदृता। न च जिज्ञासितं तत्त्वं, गतं जन्म
त्यध्यात्मसारे।।८-२६ ।। अतः सूक्तमेव छित्त्वा ममत्वमित्यादि, इत्थमेव प्रव्रज्याग्रहणसार्थक्याभिधानेन प्रकृतपुष्टियोगात्। एतेनानौचित्यभूताऽकाण्डप्रथनदोषः परिहृतः, तत्त्वत: शान्तरसे प्रक्रान्ते तस्यैव प्रथनस्य तद्दोषदुष्टत्वविरहाच्च ।
इत्थं च समत्वमेव प्रव्रज्यासर्वस्वम्, इहैवावर्णनीयसुखसन्दोहप्रदत्वात्, क्षणमात्रेण कोटिकोटिजन्मप्रचितकर्मसन्तमसनि शनाऽर्ककान्तिसमत्वेन प्रव्रज्याप्राणभूतत्वाच्च । उक्तं च - 'क्षणं चेतः समाकृष्य, समता यदि सेव्यते। स्यात्तदा सुखमन्यस्य, यद्वक्तुं नैव पार्यते।। प्रचितान्यपि कर्माणि, जन्मनां कोटिकोटिभिः । तमांसीव प्रभा भानोः, क्षिणोति समता क्षणात्।।' इत्यध्यात्मसारे।।९-१९/२२।।
समत्वसुखसागरे निमग्नो दीक्षितो बाह्यसुखपराङ्मुखो भूत्वाऽऽज्ञाराधने सम्यक् प्रवर्तते, तदुक्तम् - 'अन्तर्निमग्नः समतासूखाब्धौ बाह्ये सखे नो रतिमेति योगी। अटत्यटव्यां क इवार्थलुब्धो गृहे समुत्सर्पति कल्पवृक्षे ।।' इत्यध्यात्मोपनिषत्प्रकरणे ।।४-५ ।।
अत एव सर्वसुरसुखातिशायित्वेन श्रमणसुखाभिधानं सङ्गच्छते, समतापरिपाकतस्तत्सिद्धेः, तथोक्तम् - ‘गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेऊलेसं वीयवयइ । एवं ... बारसमासपरियाए अणुत्तरोववातियाणं तेउलेस्सं वीतिवयति'-त्ति व्याख्याप्रज्ञप्तिसूत्रे ।।१४-९-५३९ ।।
अतः यतितव्यं प्रयत्नतोऽत्र । अन्यलिङ्गादिसिद्धानामपि तदाधारत्वात्, तत एव रत्नत्रयफलप्राप्तेः। तदुक्तमध्यत्मसारे'अन्यलिङ्गादिसिद्धाना-माधारः समतैव हि। रत्नत्रयफलप्राप्तेर्यया स्याद् भावजैनता ।।' इति ।।९-२३ ।।
एतेन श्रीगुरूणां दीक्षाप्रदानानन्तरं परमं शिक्षाप्रदानं व्याख्यातम्, तल्लिङ्गप्रदर्शनेनाऽस्याऽनुमानाऽलङ्कारभूतत्वात्, तदुक्तम् - ‘हेतोरर्थप्रतिपत्तिरनुमानम् ।।२६ ।।' इति वाग्भट्टकृतकाव्यानुशासने।
समता