________________
भुवनभानवीयमहाकाव्ये
पद्मैकनाथयुवकाश्च सुशिक्षिताश्च,
श्रीमंतो, नवयुवो, सुशिक्षितो, प्रतिष्ठित सत्कीर्तिताश्च वणिजोऽपि च नास्तिकाश्च । वेपारीओ, नास्तिओ. हा..जघां ४ हृध्यसमुद्रनुं चेतोमहार्णवसुमन्थनतस्तदैव, મંથન કરીને ત્યારે જ વ્યાખ્યાનશ્રવણના ફળ રૂપે
व्याख्यानपानपरिणामविरागमापुः ।। १२ ।। वैराग्य पाभ्या. ॥१२॥
७२
संवत्सरावधि च मोहमयीपुरीं तामेकातपत्रविधया मृतर्भूममोहां । कृत्वा कृतार्थमुनिराट् त्रिमुमुक्षुदीक्षां
प्रव्रज्याप्रदानम्
દિવસો વીત્યા.. વર્ષ પૂરું થયું. મોહમયી નગરી જાણે સર્વતઃ મૃતપ્રાયઃમોહવાળી થઈ ગઈ... મુનિરાજ रृतार्थ थथा.. भए भुभुक्षुयोनी घीक्षा उरी.. गुरुयरण भजने लेटवा विहार य.. ॥१३॥ - सङ्घहितम् -
पश्चात् गुरुक्रमसरोजमहो ! जगाम ।। १३ ।।
--
१. मृतप्रायः
न्यायविशारदम्
(१२) विरागमापुरिति। अथ देशनाफलत्वेन विरागमात्रस्योक्तिरयुक्ता, खेदादिपरिहारस्यापि तत्त्वेनोक्तत्वात्, उक्तं च - 'क्लान्तमुपोज्झति खेदं, तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुल- मुपयुक्तसुभाषितं चेतः ।। इति धर्मबिन्दुवृत्ताववतरणम् । अन्यथा तु तत्फलत्वेन सम्यग्दर्शनादिकमसङ्गतं स्यात्, न चैवं, 'जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शन'- मिति वचन-प्रामाण्यात् (धर्मबिन्दौ । । ३ -६ । । ) ननु तदपि देशनातो भवतु, किं नश्छिन्नम् ? फलं तु विरागमेव, तस्यैव प्रधानत्वात्, इतरस्याऽऽनुषङ्गिकत्वेन तत्त्वायोगात्, कृषौ पलालवत्, उक्तं च- 'फलं प्रधानमेवाहुर्नानुषङ्गिकमित्यपि। पलालादिपरित्यागात् कृषौ धान्याप्तिवद् बुधाः ।।' इति ललितविस्तराया मवतरणे, इति चेत् ? न दृष्टान्तवैषम्यात्, कृषौ पलालप्रयोजनेनाऽप्रवृत्तेः, अत्र तु विरागोत्पादनप्रयोजनमन्तरेणापि प्रवृत्तेः, धर्मं प्रति श्रोतॄणामाक्षेपकारिण्या आकर्षणकर्त्या अपि देशनायास्तत्प्रयोजनपूर्वं प्रवृत्तिभावात्, तदुक्तम् 'आक्षेपणीं विक्षेपणी, विमार्गबाधनसमर्थविन्यासाम् ।
श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननीम् ।।' इति प्रशमरतौ । । १८२ । ।
ततश्च देशनाफलत्वेन विरागमात्रस्योक्तिरसङ्गतैवेति स्थितम् ।
मैवम्, खेदादिपरिहारद्वारेणाऽपि विरागोत्पादनस्यैव मुख्यप्रयोजनत्वात् । तद्विना देशनाया निष्फलत्वात्, विरतिपरिणामविरहात्, ज्ञापकमत्र श्री वीरस्वामिनः प्रथमदेशना । उक्तं च - 'केवलं प्राप्य श्रीवीरेण प्रथमसमवसरणे देशना दत्ता, परं तया देशनया कस्याऽपि विरतिपरिणामो न जातः, तत्र क्षारभूमौ निष्फलां वृष्टिमिव क्षणं देशनां दत्त्वाऽपापापुर्यां महासेनवने जगामे'-त्यादि कल्पसूत्रवृत्तौ । एतेन सम्यग्दर्शनप्रयोजनमपि प्रत्युक्तम् । वस्तुतस्तु सम्यक्त्वविरत्योर्भेदाभावादस्मदिष्टसाधनाच्च । तदुक्तम् ‘जं सम्मं ति पासहा तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा ।' इत्याचाराङ्गे ।।१-६-३ ।। सू.१५८ ।। विरागोत्पादकेतरदेशनाया अपि परम्पराकारणं तु तदेव द्रष्टव्यम्, अन्यथाक्षेपणीकथायाः शृङ्गारादिसारत्वेन भवहेतुत्वं प्रसज्येत, न चैवम्, इति भावनीयं मनीषिणा । अत एव चतुःप्रकारदेशनाया विहितत्वेऽपि संवेगोत्पादनपरायास्तस्या नियतकर्तव्यतया विधानं संगच्छते, अन्यथा परस्परविरोधापत्तेः । तदुक्तम्- 'संवेगकरं निअमा वक्खाणं होइ कायव्व' मिति पञ्चवस्तुके । । ९९६ ।।
ननु तत्किं श्रीपूज्यदेशनाफलत्वेन पर्षद् विरागमात्रमाप ? न, मुख्यत्वेनात्र तदभिधानम्, सहस्रवाहकशिबिकारूढनृपे गच्छति- ‘राजा याती’-त्यभिधानवत्, न च नृणां सहस्रं तत्र न याति किन्तु मुख्यत्वेन नृपमात्राभिधानम्, तद्वदत्राऽपि द्रष्टव्यम्, मार्गानुसारितादेरपि ततो भावादिति दिक् ।
देशनाफलं वैराग्यम