________________
५४
मनसः कायतो वाचः,
स्वाधिकारो निराकृतः । नुत्तस्वाग्रहके चित्ते,
ह्याधिपत्यं गुरोः कृतम् ।। ६३ ।।
तितिक्षाऽनुपमा भूता, गुरुभक्तिकृत सदा ।
धिषणा व्यापृता स्वस्य, गुर्वनुवर्तने खलु ।।६४॥
असञ्ज्ञिवत् सदाऽप्यास्तां गुर्वाज्ञापालने मुनी ।
गुर्वाज्ञा हि कुलीनानां
विचारमपि नाऽर्हति ।। ६५ ।।
भुवनभानवीयमहाकाव्ये
મન-વચન-કાયા પરથી હઠાવી લીધો સ્વअधिकार... स्वाग्रहने इगावी हीघो, जने भो યોગના રાજ્ય પર ગુરુનો રાજ્યાભિષેક કરી εlen. 119311
समर्पणम्
તિતિક્ષા અનુપમ હતી, ગુરૂભક્તિમાં. પોતાની बुद्धि पायरी....तो गुरुना अनुवर्तनमां ॥४॥
બંને મુનિવરો ગુર્વાજ્ઞા પાલનમાં અસંજ્ઞી બની જતા હા.. કુલીન શિષ્યો માટે ગુર્વાજ્ઞા એ વિકલ્પ કરવા યોગ્ય નથી. ઉ૫ા
न्यायविशारदम्
किं तस्स जीविएणं जम्मेणं अहव दिक्खाए ? ' - त्ति ।। ३२ ।। तथा दशवैकालिकसूत्रे - 'जहाहिअग्गि जलणं नमसे नाणाहुइमंतपयाहिसित्तं । एवायरियं उवचिट्ठएज्जा अनंतनाणोवगओ वि संतो' त्ति । । ९-१-११ ।।
-
ननु क्वास्योपयोग इति चेत् ? मुक्तिसाधन इति गृहाण, कथमिति चेच्छृणु, पात्रे परमबहुमानरूपत्वेनात्यन्तप्रशस्तात्मपरिणामरूपत्वादक्षेपमुक्तिसाधकत्वात्, प्रकर्षेऽस्यैवापूर्वकरणादिमहासमाधिबीजभावात्, समर्पणप्रकर्षेण नियोगान्मोहनीयहासात्, तत्प्रकर्षे च न दूरे क्षपकश्रेणिरिति। अत एव त्रैलोक्येऽपि सुन्दरतमो निरूपमश्च गुरुबहुमानभावः । ननु तत्त्वं तु मोक्षस्य श्रूयते, तदस्य कथमिति चेत् ? स एष धारणामान्द्याऽपराधः, तस्यैव मोक्षत्वेन प्राक् प्रमाणितत्वात् । तदुक्तम् 'आयओ गुरुबहुमाणो, अवंझकारणत्तेण, न इओ सुंदरं परं, उवमा इत्थ न विज्जइ'- त्ति पञ्चसूत्रे । । ४ - ६ । ।
(६५) गुर्वाज्ञेत्यादि । तथोक्तम् ‘आज्ञा गुरूणां ह्यविचारणीये' - ति । रघुवंशे । ।१४-४६ ।। अथाऽसमञ्जसमिदम्, अविमृश्य कार्यकरणस्य विपद्धेतुत्वात्, इतरस्य चेतरहेतुत्वात्, उक्तं च - 'सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम्। वृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पद इति किरातार्जुनीय- महाकाव्ये ।। २-३० ।। तथा - 'अविमृश्य विधातारो, भवन्ति विपदां पद- 'मिति ।
न च गुरुक्तत्वादविमृश्य कार्यमिति वाच्यम्, अनुत्तरत्वात्, उक्तदोषाऽमुक्तेः ।
मैवम्, लौकिकोक्तीनां लोकोत्तरेऽनुपयोगात्, प्रकृते तासां विरुद्धत्वात्, विमृश्य करणे रत्नत्रयहानेः, तदेव हि परमार्थसम्पत् । स्वयं विमृश्य करणे तद्धानिसम्भवात्, शुभमतिनाऽपि कृतस्य शुभत्वनियमविरहात्, अगीतार्थकृतत्वात्, तथोक्तम् – 'सुंदरबुद्धिइ कयं बहुयं पि न सुंदरं होइ' त्ति उपदेशमालायाम् । ।४१४ ।। स्वबुद्धिकृतस्य संयमबाह्यत्वात्, अगीतार्थकृतत्वादेव, गीतार्थतन्निश्रितविहाराभ्यामन्यप्रकाराऽसम्भवात् । तदुक्तम् 'गी अत्थो य विहारो बीइओ गीअत्थनिस्सिओ भणिओ । एतो तइयविहारो णाऽणुण्णायो जिणवरिंदेहिं' ति ओघनिर्युक्तौ । । १२२ ।।