________________
भुवनभानवीयमहाकाव्ये
उत्सूत्रमूत्ररुचयः समतीतंलज्जाः, शास्त्रापलापसुविलापमुखाः कुमुख्याः । सन्तीह धिक् कलियुगे हि विना भवन्तं,
ઉત્સૂત્ર રૂપી મૂત્રમાં રુચિધરો.. નિર્લજ્જ, કુત્સિત લોકોમાં મુખ્યો એવા આજે શાસ્ત્રના અપલાપથી અત્યંત વિલાપને આમંત્રણ આપી રહ્યા છે. ઓ
कस्तान्निवारयति सञ्चरतो यथेष्टम् ? ।। १४ ।। गुरुहेप ! स्वच्छंध्यारी सेवा तेखोने आापना विना झोडावे ? ||१४||
१५४
भुवनभानुभक्तामरम्
सूपेक्ष्य दुर्वचनवारमहो ! महान्तं, प्राणान्तकष्टसमुपस्थितिमप्यवाप्तः । नांऽशं तथाऽपि चलितो जिनशासनात्त्वं, किं मन्दराद्रिशिखरं चलितं कदाचित् ? ।।१५।।
અત્યંત કટુ-ગલીચ વચનોની સારી રીતે ઉપેક્ષા કરીને.. પ્રાણાંત કષ્ટની ઉપસ્થિતિને ય પામ્યા છતાં ય ઓ ગુરુદેવ ! આપ જિનાજ્ઞાથી જરા પણ थलित थथा नथी. हा... जराजर... मेरु पर्वतनुं शिमर झ्यारेथ यक्ति ययुं छे जसं ? ||१५||
-सङ्घहितम्
१ इता लज्जा येषां ते २. खाज्ञा
न्यायविशारदम्
(१४) उत्सूत्रमूत्ररुचय इति । ननु प्रतिक्रुष्टोऽयं प्रयोगः, व्रीडादिजनकत्वात्, तस्य चाश्लीलत्वेन दोषरूपत्वात्, तदुक्तम्‘व्रीडाव्यञ्जकोऽश्लीले’ति वाग्भट्टकृत काव्यानुशासने दोषनिरूपणे । । २ ५० ।। युक्तं चैतत्, जुगुप्साजनकत्वेनाऽपि तस्य दुष्टत्वात्, आनन्दहेतु हि काव्यम्, इत्थं तु तन्मूल एव कुठाराघातः, विपर्ययफलत्वात्, प्रतीतिसिद्धमेतत् । न चाऽस्तु जुगुप्साजनकत्वं मा भूद्दुष्टत्वमिति वाच्यम्, अनुशासनेऽस्य तत्त्वाभिधानात् उक्तं च - ' अत्र व्रीडाजुगुप्साऽमङ्गलव्यञ्जकत्वेनाश्लीलत्वं त्रेधा ।' इत्यलङ्कारचूडामणौ । ।पृ.२२२ ।। किञ्चैवं तत्काव्यत्वमपि दुर्वचम्, तन्निरुक्तयतिक्रमात्, रमणीयत्वविरहात्, यत उक्तम्- 'रमणीयार्थप्रतिपादकः शब्दः काव्यमिति रसगङ्गाधरे । इत्थं च तद्रचयित्रा स्वानौचित्यमनुशासनानभिज्ञत्वं चावेदितमिति स्थितम् ।
मैवम्, तस्यैकान्तेन दोषत्वविरहात्, स्याद्वादमुद्रायाः सर्वत्राऽप्यलङ्घनीयत्वात्, क्वचित्तस्याऽपि गुणत्वात्, यथोक्तं तत्रैव'क्वचिद् गुणो यथा - 'उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे । क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायत' इत्यलङ्कारचूडामणी ।। पृ.२२४ ।।
अत्र हि अङ्गनाङ्गस्यातिकुत्सितत्वप्रदर्शनस्य वैराग्यजनकत्वात् तत्प्रयोजनत्वाच्छमकथाया जुगुप्साजनकत्वेऽपि दोषविरहः, प्रत्युत गुणश्च, इत्थमेव तत्सिद्धियोगात्, अत एवोक्तमलङ्कारमहोदधौ ‘शमैकनिष्ठत्वाद्वक्तुरश्लीलत्वमपि गुण' इति । तस्मान्नैकान्तेन तद्दुष्टत्वम् । नन्वस्तु तत्र गुणत्वम्, प्रकृते किमायातमिति चेत् ? तदेव, उत्सूत्रस्यातिकुत्सितत्वप्रतिपादनन तद्धेयताप्रदर्शन-प्रयोजनत्वादस्य, इत्थमेव तत्सिद्धे:, यथाबोधं प्रतिपादनस्यानुचितत्वविरहादिति भावनीयम् ।
1
न चोत्सूत्रस्य तत्त्वमसिद्धं, महापापत्वात्, सुदीर्घसंसारनिबन्धनत्वान्यथाऽनुपपत्तेः । श्रूयते च श्रीवीरजीवमरीचेरुत्सूत्र भाषणस्य तद्धेतुत्वम्। तदुक्तम् 'मिथ्याधर्मोपदेशनात् मरीचिरप्यब्धिकोटिकोटीसंसारमार्जय' दिति त्रिषष्टिशलाकापुरुषचरित्रे । ।१०-१-७० ।। अत एवान्यत्राऽप्येतदौपम्येनैव तस्यातिकुत्सितत्वमुपदर्शितम्, तदुक्तम् - 'सूत्रमपास्य जडा भाषन्ते केचन मतमुत्सूत्रं रे । किं कुर्मस्ते परिहृतपयसो यदि पिबन्ति मूत्रं रे ।।' इति शान्तसुधारसे ।।१६-४।। एतेनैतत्प्रयोगो जुगुप्साजनकत्वेनानुचित इति शान्तसुधारसगुर्जरविवेचनकारस्योक्तिः परास्ता ।
काव्यमुद्रा