________________
पञ्चमो भानुः
श्रीखण्डखण्डरुचिंभिश्च भवद्यशोभि
र्नित्यं निशापतिरयं तुलनां प्रयाति । साफल्यमस्य न वराँकमुपैति बिम्ब,
ચંદનશકલ સમા આપના ઉજ્જવળ યશ સાથે ચંદ્ર હંમેશા સ્પર્છા કરવા મથે છે. પણ બિચારો.. દિવસે સફેદ પાંદડા જેવો ફિક્કો પડી જાય છે यद्वासरे भवति पाण्डुपलाशकल्पम् ।। १३ ।। अने सइज थतो नयी. झरण हे आपनो यश तो सहाय डांतिमान रहे छे. ॥१३॥ -सङ्घहितम्
१. धन २ डिर ३ मियारु
भुवनभानुभक्तामरम्
१५३
न्यायविशारदम्
तथैव प्रकृतेऽपि संश्रितपदस्य न सापेक्षता, तदर्थैकदेशसंश्रय एव सारकर्तृकत्वस्यान्वयः । इत्थं च सिद्धं तत्साधुत्वम् । ननु पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन [ अत्र पदार्थत्वं बोधविषयताश्रयत्वेन सङ्केतविषयत्वम्, तदेकदेशत्वञ्च बोधविषयतावच्छेदकत्वेन तथात्वरूपं, तदेव च शक्यतावच्छेदकत्वमित्युक्तं शक्तिवादे । । पृ.४९ ।।] तथैवानुशासनात्, तथा च दर्शितान्वयासम्भवादपरिहार इति चेत् ? न, ' सम्पन्नो व्रीहि:', घ्रा- धात्वर्थ इत्याद्यनुरोधेन तत्र सङ्कोचस्यावश्यकत्वात्, यथासम्भवमेव तदनुशासनसामर्थ्यात् । तथाहि सम्पन्नो व्रीहिः इत्यनेकव्रीहितात्पर्यकेऽप्येकवचनप्रयोगो दृश्यते । प्राधातोर्ह गन्धलौकिकप्रत्यक्षत्वं शक्यतावच्छेदकम् ' घ्रां गन्धोपादाने' इत्यनुशासनात्, तत्समभिव्याहृतद्वितीयायाश्चाधेयत्वमेवार्थस्तस्य च व्युत्पत्तिवैचित्र्येण गन्धादि - रूपधात्वर्थैकदेशान्वयः क्रियत इति ।
तथाऽपि यद्यपरितोषस्तदा तदर्थान्वितेत्यत्राऽभेदान्वयो निवेशनीयः एवं च 'शरै: शातितपत्र' इत्यादौ प्रकृते च भेदान्वयभावान्न तदर्थाभेदान्वितस्वार्थपरत्वरूपं तत्सापेक्षत्वम् । ऋद्धपदस्य तु राजपदेनाभेदेनान्वयात्तत्सापेक्षत्वेन तत्र समासासाधुत्वमिति व्यक्तं व्युत्पत्तिवादे ।
यद्यपि नैतन्मतं ग्रन्थकृतोऽभिप्रेतम्, तथाऽपि 'सर्वत्र लुप्तविभक्तिस्मरणे मानाभावादित्येव तदसत्ताख्यापनाद्दर्शितसमाससाधुत्वं तु तस्यापि सम्मतमेव, तदखण्डनाद्युक्तियुक्तत्वात्, 'न हि कस्यचित् ग्रन्थकृतो विपरीतलेखनं युक्तिबलाद् वस्तुसिद्धी बाधकं भवतीति स्वयमभिधानाच्च ।
-
नाऽत्र शिष्टप्रयुक्तत्वविरहोऽपि, 'प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ' इति रघुवंशकारोक्तेः । ।१-१५ ।। पातञ्जलमहाभाष्ये तु यदि सापेक्षमसमर्थं भवतीत्युच्यते, 'राजपुरुषोऽभिरूपः ' 'राजपुरुषो दर्शनीयः' अत्र वृत्तिर्न प्राप्नोति । नैष दोषः । प्रधानमत्र सापेक्षम्, भवति च प्रधानशब्दस्य सापेक्षस्याऽपि समासः, यत्र तर्ह्यप्रधानं सापेक्षं भवति तत्र वृर्त्तिर्न प्राप्नोति- ‘देवदत्तस्य गुरुकुलम्', 'देवदत्तस्य गुरुपुत्रः ' 'देवदत्तस्य दासभार्या' इति । नैष दोषः । समुदायापेक्षाऽत्र षष्ठी सर्वं गुरुकुलमपेक्षत' इत्युक्तम् ।।२-१-१ ।।
ननु किमनेन परसमयचर्चितेनेति चेत्
जिनसमयेऽप्येतत्सिद्धम्, तदुक्तमुत्तराध्ययनेषु - 'दुक्खरसंतगवेषिणो 'त्ति ।।१४-५२।। अत्र बृहद्वृत्तिः - 'दुःखस्यासातस्य अन्तः पर्यन्तस्तद्गवेषकाणि अन्वेषकाणीति । सापेक्षस्यापि समासो यथा देवदत्तस्य गुरुकुलमिति ।' अत्रापि भेदान्वयेन सापेक्षत्वं बोध्यम्, उक्तवत्, एवं चास्याऽदुष्टता । 'सापेक्षमसमर्थम्' ( न्यायसङ्ग्रहः । । २२८।।) इत्यस्य न्यायस्य तु चलत्वम्, तद्वृत्तौ न्यायार्थमञ्जूषायामस्य विसंवादित्वाच्चेत्यादिनोक्तत्वादिति दिक् । वस्तुतस्तु न तदपि परसमयचर्चितमात्रम्, तस्याऽपि जिनोक्तत्वात्, सूक्तत्वात्, तस्य च तत्त्वेन प्रागुपपादितत्वादिति दिक् ।
सापेक्षसमासः