________________
१२६
तपआचार
भुवनभानवीयमहाकाव्ये एकोनविंशतितमौलिकृतो ज्वरोऽभूत्, ૧૯ મી ઓળી કરતા એવા પૂજ્યશ્રીને ભયાનક कृत्वाष्टमं ज्वरभिदन्यतरां चकार ।
તાવ આવ્યો.. ઓળી મુકવાની બદલે અઢમાં ओलिं चतुर्दिवसपारणमात्रतोऽसौ,
લગાવી દીધો ને તાવને ભગાડી દીધો. અને માત્ર
ચાર દિવસ પારણા કરીને બીજી ઓળી ઉપાડી भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।५१।।
દીધી. “ઓ સર્વશિરોમણિ ગુરુદેવ ! હું આપને
ભાવથી ભજું છું. પવા
-सङ्घहितम्૧. આ ભાવાનુવાદ છે. માટે શબ્દશઃ નિરસ અનુવાદને ટાળીને ભાવોલ્લાસના લક્ષ્ય સાથે રચાયો છે. આ કારણથી આ સ્થળે ચતુર્થ પંક્તિના પૂર્ણ અનુવાદનો આગ્રહ નથી રાખ્યો. અન્યત્ર પણ આ રીતે સમજી લેવું. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~
'समणीमवगयवेयं परिहारपुलायमप्पमत्तं च । चउदसव्विं आहारगं च न य कोइ संहरइ' त्ति प्रवचनसारोद्धारे।।१४१९ ।। स्यान्मतम्, मा भूत्तत्संहरणम्, पूर्वावस्थायां तु तेषामपि तद् भविष्यति, इत्थमेव षट्स्वप्यरेषु सिद्धिसिद्धेः, तदुक्तम्'संहरणमधिकृत्य पुनरुत्सर्पिण्यामवसर्पिण्यां च षट्स्वप्यरेषु सिद्ध्यन्तो द्रष्टव्या' इति सिद्धप्राभृतवृत्ताविति। एतदपि फल्गु, प्रकृतप्रबन्धोप-वर्णिततज्जन्मप्रभृतेर्वैतथ्यप्रसङ्गा दिति चेत् ?
सत्यम्, तथाऽपि विरोधविरहः, व्यवहारनयाश्रयणात्, कोऽसाविति चेत् ? उपचारबहुलो लौकिकसमो विस्तृतार्थो वचनपन्था इति गृहाण, गिरिदहनाधुक्तिवत् । उक्तं च 'उपचारेण बहुलो विस्तृतार्थश्च लौकिक: । यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः ।। दह्यते गिरिरध्वाऽसौ, याति स्रवति कुण्डिका । इत्यादिरुपचारोऽस्मिन्, बाहुल्येनोपलभ्यत' इति नयोपदेशे ।।२५/२६।।
अत्र नयामृततरङ्गिणीनामधेयावृत्ति:- ‘असौ गिरिदह्यते' अत्र गिरिपदस्य गिरिस्थतृणादौ लक्षणा, भूयो दग्धत्वप्रतीतिः प्रयोजनम् । ‘असावध्वा याति' अत्रावध्वपदस्याध्वनि गच्छति पुरुषसमुदाये लक्षणा, निबिडत्वप्रतीति: प्रयोजनम् । सर्वत्रोद्देश्यप्रतीतिर्लक्ष्यार्थे मुख्यार्थाभेदाध्यवसायात्मकव्यञ्जनामहिम्ना व्युत्पत्तिमहिम्ना वेति विवेचितमन्यत्र' इति। तथोक्तं तत्त्वार्थभाष्ये - ‘लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार' इति ।।१-३५ ।। तथा- 'अयमुपचारबहुलो लोकव्यव-हारपर' इत्यनेकान्तव्यवस्थाप्रकरणे। उक्तं च नयरहस्ये - 'लोकव्यवहारोपयिकोऽध्यवसायविशेषो व्यवहार'- इति।
नन् सुभाषितं भवदिभः, किन्तु प्रकृते क उपचार इति चेत ? अल्पार्थेऽभावस्येति गृहाण । तथाहि लोभरहितपदस्य अल्पलोभे लक्षणा, कषायमृतप्रायस्त्वप्रतीतिः प्रयोजनम, दृष्टश्चायमपचारोऽन्यत्राऽपि, यदाह भाष्यसुधाम्भोनिधिः - सदसंतचेलगोऽचेलगो य जं लोगसमयसंसिद्धो । तेणाचेला मुणओ संतेहिं, जिणा असंतेहिं ।। परिसुद्ध जुण्ण कुच्छिय थोवाऽनिययनभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होति ।। तह थोव-जुन्न-कुच्छियचेलेहि वि भन्नए अचेलोत्ति । जह तूर सालिय ! लहुं दे पोत्तिं नग्गिया मो त्ति ।।' इति विशेषावश्यकभाष्ये ।।२५९८/२५९९/२६०१ ।।
नन्वेवमसद्भूतार्थाभिधानदोष इति चेत्, तत्त्वेऽपि दोषाभावात्, व्यवहारनयस्योपचारबहुलत्वात्, तस्य चासद्भूतव्यवहारात्मत्वात्। तदुक्तं नयचक्रालापपद्धतौ - 'अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणमसद्भूतव्यवहारः। असद्भूतव्यवहार एवोपचारे'-त्यन्यत्र विस्तरः ।
यद्वा तन्निग्रहकरणात् तद्विरहिततुल्यता, यदुक्तम्- ‘संते वि जो कसाए निगिण्हइ सो वि तत्तुल्लो ।।' इति । ___ युक्तं चैतत्, इत्थमेव लोकव्यवहारनिर्वाहात्, सुखेन विवक्षितप्रतिपादनसम्भवात्, उक्तवत् । एवं क्रोधादिष्वपि द्रष्टव्यमिति दिक् ।
कषायविरहः