________________
चतुर्थो भानुः
ज्ञानाचारः ।
१०७
तच्चिन्तनामृतरसश्च शताधिकेषु,
તેમના ચિંતનનો અમૃતરસ તેમણે રચેલા શતાग्रन्थेषु तेन रचितेषु विभाति चोच्चैः । अन्योमा मूल शोली रखो छे. तनी सुंदर सत्तर्कवारकृतविश्वमहाप्रबोध !
હારમાળાઓ સર્જીને વિશ્વને મહા જાગૃતિના દાતાર भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।४।। गुरुलुपनलानु ! आपने हुं लापथी म छु. ||४||
~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~
मान्योक्तिरपि, तेषां तत्राऽपि जागरणाऽभिधानात्, तदुक्तं यतिदिनकृत्ये - 'स्थविरा द्वितीयं यामं सूत्रार्थविभावनेन निःशेष' मित्यादि ।।३६१।।
शेषाणां तु जागरिकाशुभत्वं भाज्यम् । अत एवानिवार्या गुर्वाज्ञा साधोः सर्वेष्वपि कृत्येषु । यथोक्तं श्रीकल्पसूत्रे - 'भिक्खू इच्छिज्जा सज्झायं वा करित्तए धम्मजागरियं वा जागरित्तए ०कप्पइ से आपुच्छिउं आयरियं वा ०जं वा पुरओ काउं विहरइ' - इत्यादि ।।८-४६।।।
नन च किमनेनेच्छानिरोधःखनिबन्धनेनाऽतिपारतन्त्र्येण ? यथारुचि धर्मः क्रियतामिति चेत ? न, प्रत्यपायापत्तेः, तद्भीरोर्गुरुपारतन्त्र्यैकशरणत्वात्, गुरोस्तज्ज्ञत्वात् । यथोक्तमसकृत्तत्रैव - 'आयरिया पच्चवायं जाणंति' त्ति ।।८-४६।। अत एवोक्तं सिन्दूरप्रकरे - 'निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं, गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः ।।' इति ।।१६।। वस्तुतस्तु यथारुचि धर्म: धर्म एव न भवति, तस्याऽऽज्ञास्थितत्वात्, तथोक्तं - 'आणाए धम्मो' इति, युक्तं चैतत् तादृगनुष्ठानस्य श्रेयस्करत्वविरहात्, ततश्च धर्मत्वायोगात्, तदुक्तं परैरपि - ‘य एव श्रेयस्कर स एव धर्मशब्देनोच्यते ।' इति मीमांसादर्शने ।।१-१-२।। शाबरभाष्ये ।।पृ.४ ।।
एवं च श्रीगुरूणां धर्मजागरिकाऽत्यन्तं शुभैवेति स्थितम् । तस्या अपि गुर्वाज्ञाकृतत्वात्, स्वयं संविज्ञगीतार्थत्वात्, परमस्वपरोपकारनिबन्धनत्वाच्चेति ।
(४) रचितेष्विति। नन्वाज्ञाबाह्यमिदं ग्रन्थरचनम्, तत्त्वात्, सूत्रबहिर्भूतत्वात्, तत्र साधोरनधिकारात्, न च सूत्रबहिर्भूतत्वमसिद्धमिति वाच्यम्, तन्निरुक्तयतिक्रमात्, गणधर-प्रत्येकबुद्ध-श्रुतकेवल्यभिन्नदशपूर्विरचितत्वविरहात्, तथोक्तम् - 'सुत्तं गणहररइयं तहेव पत्तेयबुद्धरइयं च । सुयकेवलिणा रइयं अभिन्नदसपुब्विणा रइयं' - ति ।।१५४ ।। बृहत्सङ्ग्रहण्याम् ।
न च प्रशस्तत्वाददोष इति वाच्यम, द्वादशाङ्ग्युपेक्षाहेतुत्वेन तदुच्छेदकत्वेन तत्त्वविरहादिति चेत् ? ।
न, तबहिर्भूतत्वेऽपि ह्याज्ञाबाह्यत्वासिद्धेः, लोकोपकारपरमोपायभूतत्वात्, हितोपदेशेन स्वपरोभयानुग्रहयोगात्, तदुक्तं - -'आत्मानं च परं च हि हितोपदेष्टाऽनुग्रहणातीति तत्त्वार्थभाष्ये ।।३०।। न च वाचिकोपदेशपरमेतदिति वाच्यम, सङ्कोचकारणाभावादन्यत्रासदभिनिवेशेन । देशान्तरस्थितानां व्यवसायव्यस्तानां वा देशनासमय उपस्थातुमशक्तानां, तच्छक्तानां वा धारणाद्यभावेन तदर्थानभिज्ञानामित्थमेवोपकारसम्भवात् । न च स्वाराधनामग्नेनैव भाव्यमिति वाच्यम्, अधिकारिण देशनाकरणौदासीन्ये जिनाज्ञातिक्रमणापत्तेः, अनधिकारिण करणवत्, तदुक्तं प्रथमाङ्गे - ‘उट्ठिएसु अणुट्ठिएसु वा सुस्सूसमाणेस पवेयए' इत्यादि ।।१-६-५ ।। सू.२०७ ।। तस्मादवश्यमुपकर्तव्यमनुग्रहपरेण यतिना, लौकिकैरिपि प्राणैर्धनैरपि तदेव कर्तुं युक्तत्वेन मतत्वात्, तज्जपुण्यस्य क्रतुशतपुण्यातिशायित्वात, तदुक्तम - 'परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात् क्रतुशतैरपी'-ति । युक्तं चैतच्छ्रीपूज्यानां, लोकोत्तरसज्जनानां परोपकारे प्रार्थनीयत्वाभावात्, स्वयं कृताभियोगत्वात्, तदुक्तम् - 'सन्तः स्वयं परहिताभिहिताभियोगा' इति भर्तृहरिकृतनीतिशतके ।।७४ ।।
वस्तुतस्तु न तत्र सूत्रत्वविरहोऽपि निरुक्तयन्तरतस्तत्सम्भवात, यथोक्तम- 'अप्पगन्थमहत्थं, बत्तीसदोसविरहियं जं च।
लक्खणजुत्तं सुत्तं, अट्ठहिं गुणेहिं उववेयं-ति दशाश्रुतस्कन्धे ।।९९९ ।। तद्विशेषस्तु तत एव विज्ञेयः । न चैतन्निरुक्तिरपि तत्राऽसिद्धेति वाच्यम्, तस्य प्रत्यक्षसिद्धत्वात् । न च तीर्थकरकेवलिभिरनाचरितत्वादयुक्तमिति वाच्यम्, तत्कथितस्यैव
(निशीथाराधना