________________
गुरुभक्तिः
भुवनभानवीयमहाकाव्ये
काव्येषु कौशलभृताः सुभृताः कलाभिः, કાવ્યકલાપોમાં કૌશલ્યશાળીઓ, કળાઓથી स्तीर्थोद्धृतौ धृतिधरा नवनिर्मितौ च । परिपूर्ण, तीर्थोद्धार भने नवनिर्मामा तत्पर है सर्वत्र चैव सुलभाः सुलभा गणेशाः, विशाल समुदायना मधिपतिमो तो अधे किन्तु क्व वज्रविधया गुरुभक्तिनिष्ठा?।।९२।। सुदाम छ... पel 4x सभी गुरुमतिनी निडाना
ધારક ક્યાં છે ? ll૯શા.
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायावशारदम
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
सुगइमलं । तित्थयरेण वि जम्हा समयंमि इमं विणिदिदै ।। चेइयकलगणसंघे आयरियाणं च पवयण सुए य। सव्वेस वि तेण कयं तवसंजमुज्जमंतेण'त्ति पुष्पमालायाम् ।।२३०/२३१ ।। स्यान्मतम्, द्रव्यस्तवेतरोभयमस्तु, उभयफलप्राप्तेरिति, तदपि न, विरोधात्, सहावस्थानाऽसम्भवात्, अन्यथोभयभ्रष्टताऽऽपत्तेः, आज्ञाऽतिक्रमात्, तथा च ध्रुवा संसारवृद्धिः, तदुक्तम् - 'छज्जीवकायसंजमो दव्वत्थए सो विरुज्झए कसिणो। - इति पुष्पमालायाम् तथा - 'चइउण धरावासं तस्स फलं चेव मोहपरतंता। न गिहि न पव्वइआ संसारपवड्डगा भणिया ।।' इति पञ्चवस्तुके, अतोऽनवलम्बनीयो मुनीनां द्रव्यस्तवः, उक्तं च - 'द्रव्यार्चामवलम्बते न हि मुनि'-रित्यादि प्रतिमाशतके ।।२९।। इति चेत् ? ।
न, स्वयं करणाद्यभावेऽपि तदनुमोदनायाम्, फलप्रदर्शनेन परोक्षप्रेरणायां च साधोरधिकारात् तदुक्तं स्तवपरिज्ञायाम् - - 'जइणो वि हु दव्वत्थयभेओ अणुमोयणेण अत्थि त्ति ।।' इति ।।१०१।। अत्र चावधारणमुक्तवा नवचूरिकारः - ‘अनुमोदनेन अस्त्यैवे'-ति । तदुक्तम् – 'साधोः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुन: सामान्येन, तदनुमतिभावात्।' इति ललितविस्तरायाम् । यथाऽऽह वाचकमुख्यः - ‘यः तृणमयीमपि कुटीं दद्यात्, पुण्योन्मानं कुतस्तस्य ?' - इति। न च सर्वसावधनिवृत्तस्यानुमतिरपि कथं युज्यते ? तस्या अपि सावद्यरूपत्वादिति वाच्यम्, दोषान्तरनिवृत्तिकृत्त्वेनास्या अनवद्यत्वात्, तस्यैव चोपदेशप्रयोजकांशत्वात्, अन्यथा तदयोगात्, अन्योपायविरहात्, तदुक्तम् - ‘अनवद्यं च तद्, दोषान्तरनिवृत्तिद्वारेण, अयमत्र प्रयोजकोंऽशः, तथा भावत: प्रवृत्तेः, उपायान्तराभावा'-दिति ललितविस्तरायाम्। एतेन संयमशैथिल्यादिदोषा: परिहृताः। इत्थं च गुरुभक्तिदुराग्रह विमुच्य स्वाभिमतयोगे प्रवर्तने दोषाभाव इति सिद्धम्।
__ मैवम्, दोषाभावायोगात्, दोषाणां वज्रलेपायमानत्वात्, प्रागुपपादितत्वात्। विस्मृतमिति चेत् ? शृणु, यत्तावद्बुद्धयादीनामात्मकल्याणसाधकत्वमुक्तम्, तदयुक्तम्, विकल्पानुपपत्तेः, तथाहि तत्र सहकारिकारणत्वेन गुरुसमर्पणमिष्यते न वा ? आद्येऽस्मन्मतप्रवेश:, द्वितीये साध्यासिद्धिः, ततश्च साधकत्वायोगः। न चाभयकुमारादेर्व्यभिचाराऽऽशङ्का विधेया, बुद्धिमात्रतो साध्यासिद्धेः, विपर्ययापत्तेः, गोशालकादिवत्, मोक्षसाधनविचारे गुरुभक्तेः प्रबलांशरूपत्वात्, तदुक्तं परैरपि - 'गुरुभक्तिरतानां च वक्तव्यं मोक्षसाधन मिति वाल्मिकीरामायणे।।५-४३ ।। वस्तुतस्तु सत्स्वप्यन्येषु हेतुषु तदाधिपत्यात् तन्मात्रकारणत्वोक्तिरपि न न युक्ता, अत एव 'गुरुशुश्रूषया चैव ब्रह्मलोकं समश्नुते।' इति परैरपि मत्स्यपुराणे उक्तम् ।
ततश्चाभयकुमारादेरपि साध्यसिद्धिदर्शनात् तदनुमानम्, अन्यथा तदयोगात्, निर्हेतुकत्वप्रसङ्गात् । न चेष्टापत्तिः, असम्भवात् । तदुक्तम् - 'नाकारणं भवेत् कार्य' मित्यादि ।
इत्थमेव तीर्थोद्धृत्यादिष्वपि द्रष्टव्यम्, तुल्यन्याययोगात्। अन्यथा तु गुरुपारतन्त्र्यविरहात् तत् सर्वमप्यनर्थकरम्, मोहपारतन्त्र्यानतिक्रमात, अन्यतरपारतन्त्र्यस्याऽवश्यंभावात, त्रैलोक्यस्यापि तदन्यतरवर्तित्वात, केवलिभिर्व्यभिचार इति चेत् ? न, परमगुर्वाज्ञासुस्थितत्वात्तेषाम्, तथा च तदाज्ञा - 'आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपम मिति योगसारे।।१-२१ ।। नन्वसिद्धं तत्सुस्थितत्वम्, कृतकर्तव्यताभावा-दिति चेत् ? न, तदभावेऽपि सुस्थितत्वसिद्धेः, कृतत्वादेव, आरूढारोहणाभाववत्, तेषामेवातिचारमात्रेणाप्यस्पृष्टत्वेन परमगुरुनियोगसुस्थितेः सुवचत्वाच्च। तदुक्तम् - 'निराचारपदो ह्यस्यामतिचारविवर्जितः।
द्विधा जगत- मोहवशं गुरुवशम्