________________
८६ - पद्मर्षिपराक्रमः
भुवनभानवीयमहाकाव्ये प्रत्युत्तरं च स ददौ सुमहर्षयेऽस्मै,
સૂરિદેવે પ્રત્યુત્તર આપ્યો, “જેણે આ રીતે સમગ્ર “ह्याजीवनं ननु बभौ सुसमर्पितो यः । न सुंदर समय माप जाप्यो छ. तने पाने तस्याऽपि चेन्न भविता मरणे समाधि- भरयामा समाधि नहीं भजे तो तो समाधि विश्वने विश्वेऽपि दुर्लभतमा भविता तु तर्हि" ।।५५।। हुन थ/ ४२. (तमने अपश्य समाधि भON)"IIqull
-सहितम्१. सा- इति गम्यम्।
~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ त्ति पञ्चवस्तुके ।।१६९१ ।। तथोक्तं ‘इक्कं पि बालमरणं कुणइ अणंताइ दुक्खाई' -ति पुष्पमालायाम् ।।४८८ ।।
यद्यपि सङ्ग्रामशीर्षकल्पोऽयं मरणकालः, तथापि दृढं यतितव्यमत्र, इत्थमेव पारगमनात्, तदुक्तं - 'कायस्स वियाघाए एस संगामसीसे वियाहिए, से हु पारंगमे मुणी' - त्ति आचाराङ्गे।।१-६-५।। सू. २०९।।
तस्मादनवरतं भावयितव्यं जिनवचनम्, तत एव तीक्ष्णपीडावैषम्येऽपि समाधिसिद्धेः, पंन्यासप्रकाण्डश्रीपद्मविजयगणिवरवत् । वस्तुतस्तु महात्मनां पीडानुभवनमपि न, परिणतपारमर्षाणां तदयोगात्, तथोक्तमाचाराङ्गे - ‘न मे देहे परीसहा' इति।।१८-८ ।। २१ ।। तथा 'का अरई के आणंदे एत्थं पि अग्गहे चरे' इति।।१-३-३ ।।११७।। तदुक्तं परैरपि - 'तस्मादिह भिक्खवे यं किंचि रूपं, या काचि वेदना, सव्वं नेतं मम, नेसो हमस्मि० एवमेतं यथाभूतं संप्पञ्जाय दट्ठव्वं' ति मज्झिमनिकाये। आत्मानम् ऋणमुक्तं मन्यमानस्याऽपि न दुःखानुभवः, सहजमेतत्सर्वं महात्मनामासन्नमुक्तीनाम्, श्रीपद्ममहर्षिवदिति । उक्तं चात्मावबोधकुलके - 'जिअमप्पचिंतणपरं, न कोइ पीडेइ अहव पीडेइ । ता तस्स नत्थि दुक्खं, रिणमुक्खं मन्नमाणस्स ।।११।। इति। अत एवोक्तं समाधिशतके - ‘बहिरेवाऽसुखं सौख्यमध्यात्म भावितात्मन' इति ।।५२ ।।
(५५) प्रत्युत्तरमित्यादि। तदवोचाम समतासागरमहाकाव्ये - 'तं चचक्षे गुरुः स्नेहात्, “शङ्कां वत्साऽत्र मा कृथाः। चङ्गसमाधिभाक् त्वं नु, भवितासि न संशयः ।। य एवं जीवितं यावत्, समर्पितः प्रकर्षतः । दक्षस्यास्य समाधिर्न, तदा सा विश्वदुर्लभा" ।। ८-१५३/१५४ ।। इति श्रीप्रेमसूरिवचनेन लब्धाश्वासनोऽसौ सर्वस्थाम्ना साधनायां युयोज। उपकण्ठमागच्छति प्रेतपतौ शब्दागोचरपीडाविलोऽपि गुरुवचनातिना समाधिसुस्थितोऽभवत, समर्पणप्रकर्षबलात, स ह्यस्य समग्रजीवनाभ्यस्तत्वेन परिपाकतां समितोऽभूत् । अग्रवृत्तं चेत्थमवदाम -
'समतासागरो गुर्वो-र्वचनेन प्रबोधितः। मारणान्तिककालेऽस्मिन्, सज्जोऽभूदर्हतां जपे।। धिष्ण्यं चतुर्विधस्यापि, सङ्घस्य ध्वनिभिर्भूतम् । रामगीतिमयं पञ्च-मङ्गलं वर्तते स्म च।। परमप्रेरणां चाऽदात्, कृत्वा शैलहृदं गुरुः। तां स्नेहोत्कलिकां मुञ्च-न्ननुजाद्यविनेयके ।। महर्षिस्तिग्मतिग्मेषु, यातनास्वेकचित्ततः। रतोऽभूच्छ्रीनमस्कार-सूत्रस्य श्रवणे तदा।। णेऽवधानस्य पृष्टे तं, क्षाम्यामीत्यादिकं गुरुः। पित्रधिकाच्च वात्सल्यात्, क्षमापनां ह्यकारयत्।। जगाद ध्यानमेकैवा-ऽरिहन्ते वत्स ! धारय। गानं निरन्तरं चाऽभू-नमोऽर्हद्भ्यः ' पदस्य च।। महामुनेर्महाकास-स्तदैव च व्यजृम्भत । सुसमाधिमनाः शृण्व-
न्नुर्ध्वलोकं जगाम सः।। राद्धान्ते कथितं ह्येत-देवं पण्डितमृत्युना। लयो ह्यवाप्यते मुक्ता-वुत्कृष्टतस्तृतीयजे ।। इति समतासागरे।।८/१६५-१७२।।
अत एवावदाम समतासागरे आद्याक्षरमयसङ्क्षिप्तचरिते - 'तदशङ्कितं च यद् ‘अखिलजीवने यो गुरोरधीनो भवति, तस्य सुलभैव समाधि'-रिति ।। अष्टमतरङ्गे।। इत्थं समाधिमरणेन मृत्वा पण्डितमरणमवाप्यानेन महर्षिणा वस्तुतो मृत्योरुपरि विजयः प्राप्तः। कस्याऽनभिलषणीयमीदृशं मरणम् ? धन्या एव प्राप्नुवन्ति तं पुण्यं पुण्यानुभावेन । १. श्रीभुवनभानुसूरीश्वरः, तदा पंन्यासभानुविजयः । २. निश्चये सति ।
श्रीपद्ममहर्षिपरमाराधना