________________
तृतीयो भानुः
- पद्मर्षिपराक्रमः रुद्धानपानकृतपोषण एष धीरो,
આહાર પાણીનું પોષણ નહીવત હતું.શરીરની ___ नष्टाङ्गवीर्य इतसंस्मृतिरप्यथापि। શક્તિ અને સ્મૃતિશક્તિ પણ તદ્ગ ક્ષીણ થઈ आराधनास्थितमना निजगाद सूरिं, ગઈ હતી. છતાં ય મન આરાધનામાં સ્થિર હતું. तीक्ष्णा व्यथाऽस्ति मरणे तु कथं समाधिः?।।५४॥ तिल पीsiथी तभो सूरिव पासे शंडा व्यsd
કરી. “પીડા ખૂબ જ તીક્ષ્ય છે. મને મૃત્યુ વખતે
समाधि वी शते रहेशे ?" ||४|| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
'इक्कं पंडियमरणं पडिवज्जिय सुपुरिसो असंभंतो। खिप्पं सो मरणाणं काही अंतं अणंताणं-ति महाप्रत्याख्यानप्रकीर्णके।।१०।।
सभयस्य तु तदाराधना दुर्वचेत्युक्तं निर्भीकेत्यादि। ननु परमदुष्करमेतदिति चेत् ? सत्यम्, तत्सुकरत्वे सर्वजीवमोक्षप्रसङ्गात् । तथाऽप्यासन्नसिद्धिकानां तदपि सुकरम, सकाममरणसिद्धेः। नन्वेवं सूत्रविरोधः, सह कामेन वर्तते इति सकामं मरणम, तथातन्निरुक्तेः, सूत्रे तु तत् प्रतिषिद्धम्, तदुक्तम् - 'जीवियं नाभिकंखिज्जा, मरणं नो वि पत्थए।
दुहओ वि न सज्जिज्जा, जीविए मरणे तहा' -त्याचाराङ्गे ।।८-८-४ ।। इति चेत् ? न, विरोधविरहात्, सूत्रानुरोधेन तत्रेवपदस्याऽध्याहार्यत्वात्, तदपि निर्भयत्वात्, तदपि संयतात्मनो मरणस्योत्सवभूतत्वात, उक्तं चोत्तराध्ययनसूत्रबृहद्वत्तौ - 'सकाममिव सकामम, मरणं प्रत्यसन्त्रस्ततया, तथा चोत्सवभूतत्वात तादृशां मरणस्य। तथा च वाचकः -
सञ्चिततपोधनानां नित्यं व्रतनियमसंयमरतानाम् ।
उत्सवभूतं मन्ये मरणमनपराधवृत्तीना-मिति। तदपि कृतकृत्यत्वात्, तदुक्तम् - 'चरितो निरूपक्लिष्टो धर्मो हि मयेति निर्वृतः स्वस्थो मरणादपि नोद्विजते कृतकृत्योऽस्मीति धर्मात्मेति। तदपि कृतकृत्यानां मृत्योः प्रियातिथिसमत्वात, उक्तं च -
'प्रायेणाकृतकृत्यत्वाद्, मृत्योरुद्विजते जनः। कृतकृत्याः प्रतीक्षन्ते, मृत्युं प्रियमिवातिथि-मिति ।
अतः सिद्धमभयत्वं शीलवतां, तत्त्वात्, तथा च पारमर्षम् - ‘ण संतसंति मरणंते सीलवंता बहुस्सुया'-त्ति उत्तराध्ययनेषु ।।५२९।। तदपि शीलवतां दुर्गतिभयचिन्ताविरहात्, सद्गतिगतिदक्षत्वात् तथोक्तम् -
'कत्तो चिन्ता सुचरियतवस्स, गुणसुट्टियस्स साहुस्स ?।
सोग्गइगमपडिहत्थो, जो अच्छइनियमभरियभरो'-त्ति उपदेशमालायाम् ।।४७० ।। ननु सर्वं सूक्तम्, किन्तु दुष्करतमं, त्रिभुवनस्याऽपि स्वप्राणवल्लभत्वात्, तदुक्तम् - 'आशकादाकृमेः प्राणा, जन्तूनामतिवल्लभाः' इति त्रिषष्ठिशलाकापुरुषचरिते, तथोक्तम्- ‘सव्वे जीवा वि इच्छंति जीविउं न मरिज्जिउं' ति दशवैकालिके ।।६-१०।। इति चेत् ? सत्यम्, तथापि'सकामेतरोभयोरपि यदा मर्तव्यमेव, तदा धीरतयेव मर्तुं किं नोचितम् ? न हि मृत्युरकामेनापसार्यते, त्रैलोक्यामरत्वप्रसङ्गात्, तस्माद धीरतेवोचिता, इत्थमेवाराधकत्वयोगाज्जन्ममृत्युमाध्यस्थ्यसिद्धेः। अन्यथा मरणपरम्परापायानपायाद'- इत्यादिजिनवचनभावितानां तदपि सुकरम्, उक्तं च
___ 'धीरेण वि मरियव्वं काउरिसेण वि अवस्स मरियव्वं । दुण्हंपि हु मरियव्वे वरं खु धीरत्तणे मरिउं'- त्ति आतुरप्रत्याख्यानप्रकीर्णके ।।६४ ।। तथा 'सव्वत्थापडिबद्धो मज्झत्थो जीविए अ मरणे अ। चरणपरिणामजुत्तो जो सो आराहगो भणिओ'
(पण्डितमरणसतत्त्वम्