________________
४४
अहरा
विषयाः निरपेक्षनयद्वयोक्तिने युक्तेति न सा स्वसमयप्ररूपणा, किन्तु परस्परसापेक्षतत्तप्रयापेक्षसप्तभङ्ग्यात्मकस्थाद्वादोक्तिरेव युक्ता, सैव स्वसमयपरूपणेति निरूपणम् ।
१९१-१६ २ एकान्तद्रव्यार्थिकपर्यायार्थिकनययुक्तीनां पर्यायाथिकद्रव्याथिकनयव्युत्पादिता
सत्यत्वसाधनप्रगल्भानां नैकत्र क्वचन पक्षपातो युक्तः किन्तु स्याद्वादेनोभयोपग्रहः कर्तव्य इति प्रतिपादनपरतया द्वितीयाऽवतरणम् ।
१९२-३ ३ अन्योन्यसापेक्षयोच्यार्थिकपर्यायार्थिकनययोः स्यान्मृत एवात्मा स्यादमूर्त एवात्मेत्यादयः सप्तभङ्गात्मका वचनप्रकाराः, ते यथार्थबोधजनकत्वात्स्वसमयप्ररूपणा स्वतन्त्रनयद्वयप्ररूपणा च तीर्थकरस्याशातनेत्युक्तगाथार्थः ।
१९२-१० ४ उत्सर्गतः स्याद्वाददेशनायास्तीर्थकरविहितत्वे "संकेज याऽसंक्तिभाव भिक्खू" इत्यादिसूत्रकृताङ्गचतुर्दशाध्ययनोक्तगाथायां विभजवायं च वियागरेजा इत्युक्ति प्रमाणम् ।
१९२-२६ ५ कालिकश्रुते नयाख्या न कर्तव्येति कथमुक्तमिति प्रश्नप्रतिविधानम् । १९२-३०
६ नयव्याख्याया अनुमतत्वे 'भासिञ्ज वित्थरेणवि' इति भाष्यगाथासंवादः। १९३-२ ५४-१ प्रथमकाण्डान्तिम "पुरिसज्जायं तु पडुच्च" इति चतुःपञ्चाशत्तमगाथावतरणं,
तत्रोत्सर्गतो निखिलनयज्ञ प्रतिपत्तारं प्रति परस्परसापेक्षनयद्वयोक्तिरूपप्रमाणवाक्यात्मिका स्याद्वादप्ररूपणा कर्तव्येति प्रतिपाद्यापवादतोऽन्यतरनयज्ञ तत्प्रियश्च श्रोतजनमुद्दिश्य तदज्ञातैकनयप्ररूपणाऽपि स्थाद्वादप्रतिपादनयोग्यता
जननी कर्तव्या, असत्ये वर्मनीति न्यायादित्युक्तगाथाप्रतिपाद्योऽर्थो दर्शितः।१९३-५ २ उक्तगाथार्थदर्शनपुरस्सरं एकनयदेशनायाः स्वरूपतोऽसत्यत्वेऽपि स्याद्वादव्युत्पादकतया फलतस्सत्यत्वमिति निगमितम् ।।
१९३-१५ १ अथ प्रशस्तिः, पइभिः कुलकं, सम्यग्दर्शनशुद्धिनिदान-सूक्ष्मतत्त्वरत्नपूर्णद्रव्यानु
पोगमयसम्मतितर्कग्रन्थविस्तीर्णाभयदेवमरिकृतव्याख्यानेऽल्पबुद्धयशक्यप्रवेशे तेषामवगाहनार्थ कृतायां सिद्धान्तानुगायां नौसमायामवतारिकारच्यवृत्ती अनल्पाईद्भव्यचैत्याप्रतिमशोभे राजनगरपुरे न्यायवाचस्पत्यादिविरुदालङ्कृतविजयदर्शनमुरिणा विद्वद्वर्गसंगीयमानानेकगुणनिकरस्य गुरुवरश्रीनेमिसरेः प्रभावात् त्रिखशून्ययुग्मे विक्रमाब्दे मार्गशीर्षशुक्लैकादश्यामादिमकाण्डटीकेयं कृता पूर्ति गता गुणकानिचित्तेऽमन्दानन्दं विस्तारयत्वित्यर्थस्तस्य । १९४--२ ॥ सम्मतितर्कप्रथमकाण्डमहार्णवावतारिकारव्यटीकाविषयानुक्रमणिका समाप्ता ॥
"Aho Shrutgyanam"