________________
सम्मति. काण्ड ३, प्रशस्तिः
३९९
न्यायालोकविराजमानकृतयोऽर्हत्स्थापनापूजनाssचान्तस्वान्तसुभक्तिजातप्रतिमामार्तण्डसत्कीर्तयः। स्पृश्यास्पृश्यविवेकबोधफलकग्रन्थक्रियाकर्मठा, वृक्ष्या सम्मतितर्कवृत्तिगतया विद्वजनामोददाः ॥ ३० ॥ तीर्थोद्धारपरायणाः प्रतिदिनं व्याख्यानतो धर्मगान् , श्रीसिद्धाचलदर्शनादिकृतये श्रीसङ्घयात्रोन्मुखान् । सत्क्षेत्रेषु विविच्य भव्यमनसः सव्यदानोधतान् , भव्यान् जैनमतप्रचारचतुरान् कुर्वन्त इष्टार्थिनः ।। ३१ । श्राद्धः कोऽपि जिनाचनादिविधुरो माभूत्क्वचिद्भावुको, धर्माराधनकृत्कदाऽपि समये चेत्याशयालिङ्गिताः। श्रीसेरीसकदम्बतीर्थमहुवातालध्वजादौ जिनचैत्यानि प्रतिमाश्च कारयितुमत्युत्काः प्रतिष्ठां जनैः ।। ३२ ॥ सूरीणां प्रवराः श्रुतोक्तविधिना सम्यक्रियाऽऽराधकाः, सम्यग्ज्ञानविराजिता हतरिपुवाताश्च सद्दर्शनाः । मन्त्राराधनतत्पराः सुरगुरुप्रज्ञाभिमानापहा, अस्माकं गुरवो जयन्ति भुवने श्रीनेमिसूरीश्वराः ।। ३३ ।। *यस्या नाऽऽस्यतुलाकथाऽपि शशिनाऽधाविष्कृतोपेक्ष्यते ? स्यात्पादेऽप्यवरोपिता कमलशी-तांश्वादिता नो वरा । माता सुन्दरतादिकस्य न धनी बुद्ध्यादिभिस्सम्मतः,
सा वीरप्रतिमाऽवरा मधुपुरी-संस्थाऽस्तु भूत्यै सदा ॥ ३४ ॥ * यस्या वीरप्रतिमायाः शशिना चन्द्रेण सम, आस्यतुलाकथाऽपि मुखसादृश्यवर्णनाऽपि, नोपेक्ष्यते, काक्वा उपेक्ष्यते एव, यस्याः पादेऽपि चरणेऽपि, अवरोपिता कल्पिता कमलशीतां वादिता कमलचन्द्रत्वादिका, नो नैव, वरा श्रेष्ठा स्यात्, सा कल्पनाऽपि वास्तविकसादृश्याऽभावादऽयुक्कैन । यस्याः प्रतिमायाः सुन्दरतादिकस्य सौन्दर्या दिगुणस्य माता एतादृशमस्यास्सौन्दर्याविकभित्येवं नियमनकर्ता, अपरिमितसौन्दर्यादिगुणस्य परिमितसौन्दर्यादिवर्णनमबोधविल. सितमित्येतस्मात्कारणाद् बुद्ध्यादिभिः बुद्ध्यायात्मकधनेन धनी धनवान् न सम्मतः, परीक्षकाणामिति शेषः, चतुर्थचरणार्थस्तु व्यक्त एव, अत्र शशिनाथाऽऽख्याध्यापकनाम, पिता कमलशी, मावा पनी, स्वनामसुन्दर प्रति ख्यापितं भवति । इत्येवं चतुर्विंशसमपद्यार्थो शेयः ।
"Aho Shrutgyanam"