________________
सम्मति० का ३, प्रशस्तिः तद्वक्त्या गुरुभक्तिसम्बलितया वृत्तिर्मयोल्लासिता, येयं सम्मतितर्कतत्वमननैकान्तप्रसक्ताऽमला । साऽनेकान्तमतावगाहचतुरां बुद्धिं विधायोज्वला, संसारे च शिवे समानमनसा मुक्ति विधत्तात्सताम् ॥ ३५ ॥ श्रीमदर्शनसूरिणा जिनमते श्रद्धा स्वकीयां दृढां, कतुं वृत्तिरियं जिनागमगतानेकान्ततत्त्वार्थगा। दृब्धाऽतो न परोपकारजननं चेन्मास्तु भक्तिर्दृदा, स्वस्यैवास्तु निरन्तराभ्यसनतो जैनागमे कामिता ॥ ३६ ।। वर्ये वाणखखाक्षिभिः (२००५) परिमिते संवत्सरे वैक्रमे । मार्गेऽके धवले च पालनपुरे विश्वाधिपे सत्तिथौ । लध्वी सम्मतितर्कशास्त्रविवृतिश्शास्त्रीयतत्त्वानुगा, पत्ति दर्शनसूरिणा वरगुरोर्नीता सुधाष्टितः ।। ३७ ।। द्वेषः सूक्तिभिरस्ति कुत्सितधियामज्ञास्तु नैवार्थिनः, प्राझं मन्यजना मनागपि न तत्स्पर्श क्षमन्ते ततः । स्यादेतेन परोपकार इति मे चित्तेऽपि नोजृम्भते, स्वान्तस्तोषकृते श्रुतव्यसनिताऽत्रास्मान् न्ययुक्त ध्रुवम् ॥ ३८ ॥ अनुपयोगतो जाता, स्खलना काचिदत्र ताम् ।। गुणकदृष्टयस्सन्तः क्षमन्तामिति प्रार्थये ॥ ३९ ॥
विश्वातिशायिश्रीवीरप्रभुशासनसमुन्नतिसमुन्नतमतिप्रकर्षाखण्डप्रौढप्रभावशालि-सूरिसार्वभौम-शासनसम्राट्-सुगृहीतनामधेयश्रीतपोगच्छभद्वारकाचार्य-श्रीविजयनेमिसूरीश्वर-पट्टालकाराऽऽप्तन्यायवाचस्पतिशास्त्रविशारदविरुद-तपोगच्छाचार्य-श्रीविजयदर्शनसूरिप्रणीत-सम्मतितर्कमहार्ण
वावतारिकाख्यलघुटीकासधीचीनं
॥ श्रीसम्मतितर्कप्रकरणं समाप्तम् ॥
"Aho Shrutgyanam"