________________
सम्मति• काण्ड ३, प्रशस्तिः मिथ्यकान्तनयोष एव प्रथितथैकान्तताऽपाकृती, सापेक्षोक्तिविराजितस्सुसमयः स्याद्वादनामाऽमला। सम्यग्दर्शनमेष एव सुनयः श्रद्धाऽत्र सज्ज्ञानजा, येषां ते चरणैकतानहृदया मुत्यङ्गनालिङ्गिताः ॥ २३ ॥ नानेकान्तमतं निरर्गलतया सर्वत्र लब्धोदयं, क्षेप्तुं कोऽपि कृती विवेकचतुरो योग्यो भवेद्वादिषु । यसाचित्रमनेकमेकमुदितं वैशेषिकाद्यैस्तथा, बौद्धैनिमपीदृशं च प्रकृतिः साङ्खयैश्रिता तादृशी ॥ २४ ॥ इत्याद्या विषयाः प्रसङ्गवशतश्चान्ये विवादालया, युक्तिवातसमर्थिता ननु मया मोदाय विद्यावताम् । गङ्गाम्भोमिलिता भवन्ति शुचयो नापः कुगर्लोद्गता, कि तद्विषया इमेऽपि प्रथिताः स्याद्वादसङ्गोद्धराः ॥ २५ ॥ प्राचीनोक्त्युपशोभिता श्रुतवचस्संवादवद्धादरा, वृत्तिस्सम्मतितकेंगूढविषयैदम्पर्य मात्रान्वया । नव्यैवास्तु तथापि नूतनधिया नोपेक्षणीया बुधैयस्मान् मूलमशेष मेव सुगम संसर्गतोऽस्याः स्फुटम् ।) २६ ॥ धीमन्तो वसुधाधिपाऽऽलिमहिता वाचंयमानां वरा:, न्यायव्याकरणादिशास्त्रनिचयप्रोल्लासबद्धोद्यमाः। हैमव्याकरणोक्तिसङ्गमनया हेमप्रभाधा कृर्ति, कृत्वा पाणिनिजां कृति बहुमतां कुर्वन्त ईपत्प्रभाम् ॥ २७॥ जैनन्यायविचारसारघटितां न्यायप्रभाख्या कृर्ति, कृत्वा बौद्धविचारखण्डनपरे सत्खण्डखाधेऽमले । न्यायकान्तकथामशुदयपनयात्कुर्वन्त आप्तोद्गतां, जैनन्यायकथाप्रचारनिरताः शास्त्रार्थबद्धादराः ।। २८॥ नीतिव्रातसमर्थनैकमनसो नीत्यर्थशास्त्रोद्यमा:, स्याद्वादोन्नतिबुद्धयो निजकृतिप्रोभूतसूत्रोचयाः। *अन्याऽभातविभातकल्पनिकरश्रीसप्तमङ्गीगिरो ।
युक्तिवातसुगुम्फितैकलसितश्रीन्यायसिन्धुप्रभाः ॥ २९ ॥ * अन्येषामभातोऽपि अविदितोऽपि विभातो विशेषेणावगतः कल्पनिकरः पक्षसमूहो यत्रैताहशसप्तभङ्गीगिरो येषां ते तथा, अर्थाद्विशिष्टसप्तभङ्गीग्रन्थप्रणेतार इत्यर्थः ॥ २९ ॥
"Aho Shrutgyanam"