________________
सम्मति. काण्ड ३, प्रशस्ति:
॥ अथ प्रशस्तिः ॥ ग्रन्थे सम्मतितर्कनामविदिते काण्डप्रयोल्लासिते, मूले वृत्तिरगायधीधनवता वादप्रथोल्लासिनी। अन्ध्यामाऽभयदेवसरिविदुषा विद्वन्मनोरञ्जिनी, दृन्धा या प्रभवन्ति कुण्ठमतयस्तत्राऽवगाहुं न वै ।। १ ॥ तेषां तत्र सुखावगाहनकृते नौकोपमेयं मया, व्याख्याल्पा रचिता प्रमाणनयनिक्षेपैश्च भलीभरैः। तत्तत्तत्वविचारसारकलिताऽस्त्वानन्दकेल्यै सदा, न्यायाचार्ययशस्समीकृतपथोल्लासा विदां दृष्टिगा ॥२॥ नित्यो नागम एति मानपदवी नापौरुषेयस्ततो, नेशो विश्वविधायकोऽस्ति प्रमितस्तत्कर्तृको नागमः। आप्तः किन्तु जिनस्तदुक्तिरमलाऽनेकान्ततच्चान्वया, स्याद्वादागमसंज्ञिता ननु भवेन्मानं न चान्यागमः ॥ ३ ॥ वादिवातसमर्थिता तु सकलैकान्तप्रथा युक्तितो, वादेऽन्योऽन्यकर्थिता न विमला सिद्धि प्रयाति स्फुटम् । स्याद्वादोऽमलनीतिसप्तकलितो यत्सप्तमङ्गीमयो, निक्षेपानुगतो न वादिनिकरैयो भवेत्तत्वतः ॥४॥ नीतिप्ससमासतोऽत्र सकला संलक्षिता लक्षणं, प्रत्येकं तु विभावितं बुधवरैर्यद्यबथा दर्शितम् । सुरीणां वचनं तदिष्टगतये संवादनायादृतम्, यत्तन्त्रं च यदुवं तदपि तद्युक्त्या समुल्लासितम् ।। ५ ।। मङ्गास्सप्तनयप्रचारसुभगाः सन्दर्शिता भेदतो, यो मनच यतो नयादुदयते प्रत्येकमावेदितम् । यो धर्मों यदपेक्षयाऽत्र घटते तस्यापि निस्संशयं, युक्तिवातसमर्थनं सुविहितं यस्माद्विरोधो हतः ॥ ६ ॥ मुख्यैकैकसदादिधर्मविषया आद्या निरंशाखया, भगा दित्रिकधर्मवोधनपरास्साशास्तदन्ये च ते । तेषामत्र विचारणा मितिनयाऽऽस्थां ससमयाश्रितां, कतुं पल्लविता यथाऽत्र सुगमा स्यात्सप्तमङ्गीगतिः ॥७॥
"Aho Shrutgyanam"