________________
३९६
सम्मति. काण्ड ३, प्रशस्तिः
निक्षेपेषु सुलक्षितेषु सकलव्यापित्वमेकैकशो, नामादेरुपपादितं मतभिदाप्याविष्कृता सागमा । नीतीनामिह योजना नियमिता संवादिता कल्पनाशिल्पानां वचनैः सुयुक्तिकलितैः पक्षप्रथाभासुरैः ॥ ८॥ द्रव्यार्थस्य नयस्य यश्च विषयः सामान्यनामाखिलव्यापी द्रव्यपदार्थ एक उदितो नित्योऽनुगामित्वमाक् । यः पर्यायनये विशेष इतराऽसम्भित्ररूपस्तयोरेकान्ताऽनुमति विधूय विमता सापेक्षता स्थापिता ॥ ९॥ ध्रौव्यं द्रव्यनयाश्रितं जनिलयो पर्यायनीत्याश्रितो, संमिनं त्रितयं प्रतिक्षणगतं सत्त्वं समस्तेष्वपि । प्रोक्तं तत्प्रभुणा यथा प्रमितितो विज्ञैस्तथा साधितम् , यच्चैकान्तिमतं कदाग्रहगतं सचं हतं तत्स्फुटम् ॥१०॥ सत्कार्यादिप्रथाऽपि कापिलमुखैरावेदिता खण्डिता, धन्योन्यप्रतिपक्षभावलसिता साऽन्योऽन्ययुक्त्याऽऽहता । स्याद्वादिप्रचिभाविता तु सदसत्कार्यप्रथा मानतो, निर्णीता परवादियुक्तिनिकरै वापनेया वरा ॥११॥ एकान्त्यन्यतमप्रवर्तितमते कुत्रापि नो युज्यते, हिंसादिनिजलक्षणैकनियतो भेदप्रभेदाश्चितः । स्थाद्धिसादिकमाईते तु सकलं षट्कायगं युक्तितोऽऽनेकान्तं परकीययुक्तिनिवहाऽनालीदात्तम्भितम् ॥ १२ ॥ संसारो न च युज्यते परमते तत्कारणाऽयोगतो, नो मुक्तिः परवादिकल्पनगता तद्धत्वयोगात्ततः । स्याद्वादोक्तिसमर्थिती सजनको स्तो बन्धमोक्षौ वरावित्यादि स्फुटमार्हते तु सकलं युक्त्या व्यवस्थापितम् ॥ १३ ॥ ज्ञानं चैकमपि स्वभावबलतः सर्वावभास्येव यत् , तत्किश्चिद्विषयावमासि नियताऽऽवृत्यैव कर्मोत्थया । ज्ञानं पश्चविधं ततस्त्वभिमतं नैव स्वतस्तत्कृतस्तत्तद्गोचरहेतुशक्तिनियमः संस्थापितो युक्तिभिः ॥ १४ ॥ सर्वज्ञस्य प्रसिद्धिरेव-मुदिता तत्खण्डनप्रक्रिया, मिमांसाापढौकिता प्रतिहता संक्षेपतो मानतः ।
"Aho Shrutgyanam"