________________
सम्मति० काण्ड ३, अन्त्यमालम्सामायिकादिमिन्दुसारपर्यन्तश्रुताम्भोधेः कल्याणमस्त्विति प्रकरणपरिसमाप्तौ अन्त्यमङ्गल. सम्पादनार्थमसाधारणयथार्थगुणोत्कीर्तनात्मिकां स्तुतिमाह हरिभगवानिति भावः ।
कल्याणकदर्शनसूरिगीत-गुणौधतीर्थोदयसूरसूरिम् । भक्त्या सदाऽऽनन्दनताङ्गिसूरिम् , विशुद्धविज्ञानविकाशत्रिम् ॥१॥ मध्यात्मपामोल्लसनार्कसूरिं, पिपासुतत्वाऽमृतपायिसूरिम् ।
अपूर्वलावण्यवरास्यसूरिं, कस्तूरसा स्तौति न नेमिसूरिम् ॥ २॥ दिङ्मात्रमेव समदर्शि तृतीयकाण्डे, द्रव्यानुयोगमितिभङ्गनयागमाब्धेः ।
नव्योक्तिमेरुमथनात् पिचतात्तदुत्थं, सन्त्यज्य दुनयविष सुनयामृतं ज्ञः ॥३॥ पवित्रेऽहंश्चैत्यैथुपुर इव प्रलादनपुरे, चतुर्मासं स्थित्वा स्वगुरुकृपया वैक्रमशुभे । शराप्रद्युधब्दे नवतिजिनकल्याणकदिने, तृतीये काण्डेऽहं लघुविवृतिपूर्ति विहितवान् ॥४॥
इत्यतिविषमैदंयुगीनकालप्रमावक्रमिकाहीयमानायुर्बलोत्साहश्रद्धासंवेगश्रवणाकासाऽव. धारणादिशक्तीनां भव्याङ्गिनातानां प्रमाण नानाविधनयनिक्षेपसप्तमङ्गयादिसटितजिनवचनप्रतिपाद्यानेकान्ततत्वश्रवणमेव दुर्लभम् , श्रुत्वाऽप्यतिकुण्ठितप्रज्ञत्वात्तेषां सर्वनयप्रपश्च. संस्कृतधीगम्यतत्वावबोधो दुश्शक्यः कदाचित्कथञ्चिदुपजाततथाविधज्ञानावरणकर्मक्षयोपअमावल्यात्तचावबोधे सुशक्येऽप्यध्यापनकाले परप्रत्यायनं प्रत्यादरः कार्यसन्मुखमावं गमयितुमशक्या, तस्य तथाभावेन गमयितुं शक्यत्वेऽपि महाग्रन्थार्थसंस्मरणं स्मृतार्थप्रतिपाद. नश्चात्यन्तक्लेशायेति मत्वा जिनाभिहिततत्वजिज्ञासवो विस्तरग्रन्थभीरवोऽमी विनीतविनेया मध्यस्थवृत्तयोऽत एवाऽनाग्रहिणो विनेयभावेनोपसन्नाः कथं नामाल्पग्रन्थेनाल्पीयसा कालेन पूर्वोक्ततत्वमधीयेरन्नित्यनुग्रहबुद्ध्या " दूसमनिसादिवागरकप्पत्तणओ" इत्यादि पञ्चवस्तुवचनाद् दुःषमाकालनिशादिवाकरकल्पत्वेनावाप्तयथार्थनाम्ना तार्किकशिरोमणिश्रीसिद्धसेनदिवाकरेण प्रणीतस्य निर्झरदतुच्छवाग्छटामदवारिप्रवादिद्विरदघनघटाकुण्ठधीनियोजित. युक्तिवातात्मककुम्भपीठभेदिवजोपमद्रव्यानुयोगप्रतिपाद्यापेक्षाभेदप्रयोज्याविरोधमाक्तदत. दात्मकानेकान्ततत्वप्रामाण्यनिश्चायकाऽभेद्ययुक्तिवातसङ्घटितस्य सम्मतितर्कप्रकरणस्य विश्वानुपमप्रौढप्रभावप्रभावितवीतरागप्रभुशासन-तीर्थोद्धारकधुरीण--श्रीतपोगच्छनभोनभोमणि-शासनसम्राड्--भट्टारकाचार्य-श्रीविजयनेमिसूरीश्वरचरणारविन्देन्दिन्दिरायमाण-तत्पवाब्धिचन्द्र-समवाप्तन्यायवाचस्पति-सिद्धान्तविशारदविरुद-तपोगच्छभट्टारकाचार्यविजयदर्शनसूरि-विरचिता सम्मतितर्कमहार्णवावतारिकाख्यसम्मतितर्कलधुटीका समाप्तिमगादिति ।
"Aho Shrutgyanam"