________________
सम्मति० काण्ड ३, गा० ६९ अन्त्यमङ्गलम्
३९३ बोधात् , यतस्साक्षाद् दृश्यत एव प्रचुरविषलवसमूहोऽपि प्राज्ञकुशलक्रियपीयूषपाणिमहावैद्य. कुतमिथोविशिष्टद्रव्यसंयोगविशेषापादितपरिणामान्तराऽऽपन्नो निर्विषीसनगदरूपता लोहसमूहोऽपि स्पर्शमणिस्पर्शतस्सुवर्णभावमात्मसात्कुर्वाण इत्येतस्मिन् लोकसिद्धे किं विवादेन ? तद्वत् मिथ्यादर्शनसमूहोऽपि स्याद्वादतवजयथास्थानविनियोजितपरस्परसापेक्षभावोऽत एवं दरीभूतविरोधभावत्वेनाऽविरोधमावङ्गतः समासादितस्याद्वादस्वरूपस्सम्यक्त्वमासादयतीति यथार्थमावेन सर्वनयविषयप्रतिपादकतया तन्मयं जिनवचनमपि सम्यग्रूपमेव, अत एव जिनवचनसमुद्रस्यैते प्रत्येकनयास्तरङ्गा वेदान्तसाङ्खयबौद्धादितत्तदर्शनप्रकृतिभूताः, तन्मयश्च जिनवचनसमुद्रो रत्नत्रयममलं प्रसूत इति तदर्थिनस्तकर्तारं भवन्तं नम्रीभूया. श्रयन्ते, अभिहितार्थसंवादि चेदं वादिगजकेशरिश्रीसिद्धसेनदिवाकरभगवद्वचनम्" नयास्तव स्यात्पदलाञ्छना इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥१॥" इति।
'अमयसारस्स'इति-न विद्यते मृत मरणं यस्मिन् असो अमृतो मोक्षः, तं सारयतिगमयति मोक्षस्वरूपप्रतिपादकत्वाद् बोधयति मोक्षकहेतुतया तं प्रापयतीति वा यत्तत् अमृतसारम्-तस्येत्यर्थः । 'अमयसायस्स' इति पाठे तु अमृतवत् स्वाद्यते यत्तदमृतस्वादम्अमृततुल्यमिति यावत् , अमृतमास्वाधमानमनिर्वचनीयानन्दसन्दोहं जनयति तद्वदिदमपि जिनवचनमधीयमानं श्रूयमाणं वा शुक्लपाक्षिकसंविग्नभविवातानामनुपमप्रमोदभरमुत्पादयति, एवंविधस्य तस्येत्यर्थः । भगवओ-क्षीरावाद्यनेकलब्ध्याद्यैश्वर्याद्यर्थसमन्वितत्वेन भगवतः, अनेन विशेषणेन तस्य ऐहिकसम्पद्विशेषजनकत्वमाह । संविग्गसुहाहिगम्मस्स' संविग्नसुखाधिगम्यस्य, संविग्नः । यथेह लवणाम्भोभिः परितो लवणोदधिः । शारीरमानसैदुःखैरसङ्खथेयैर्भवस्तथा ॥१॥" इत्येवं भवस्वरूपभावनया भवविमुखैः, कारागारविमुखैः कारागार इव संसारोऽनन्तदुःखभयस्थानत्वेन तैहय एव, अव्या. बाधाखण्डपरमानन्दैकनिकेतनत्वेन तद्विपरीतलक्षणो मोक्षश्चोपादेय एवेत्येवं परमार्थतत्वविचारणया मोक्षमभिलिप्सुभिः "काम ! जानामि ते मूलं, सङ्कल्पात् किल जायसे । अतस्तं न करिष्यामि, ततो मे किं करिष्यसि ? ॥१॥" इति भावनया कारणात्मकसङ्कल्पोच्छिच्या तत्कार्यभूतकामभोगासक्तिनिवृत्तः, भवामिनन्दिना जिनवचनं कर्णशूलाय. मानमिति न तु तैः, इदमेव जिनवचनं श्रोत्यथार्थावबोधजनकत्वेन तथ्यं भ्रमप्रमादविप्रलिप्साधनासक्तपुरुषप्रणीतत्वेनाऽविसंवाघऽसंदिग्धत्वादिगुणोपेतमित्यतः सुखेनाधिः गम्यतेऽवयोध्यते यत्तत् संविग्नसुखाधिगम्यम् , एतद्विशेषणेनापि विशिष्टषु त्यतिशयसंवित्समन्वितयतिवृषनिषेव्यत्वमस्य प्रतिपादितम् । एवंविधगुणगणालङ्कतस्य जिनवचनस्य
"Aho Shrutgyanam'