________________
सम्मति० काम , मा. वै जनिति न्यायात्प्रमाणापेक्षया सम्यग्दर्शनादित्रयसमूहस्य ज्ञानक्रियोमयस्य वा मोक्षा. नुकूलशक्तिमत्वेन रूपेणैकमेव कारणत्वमित्यभ्युपगन्तव्यम् , तत्र द्वारद्वारिभावकल्पनादिकमधिकं पूर्वमेवोक्तमिति ॥ ६८॥
दुरवगाहगम्भीराक्षोभ्यपदार्थरत्नरत्नाकरस्य नानाविधतरङ्गोपमविविधततनयभरच. नाऽऽत्मकस्थानेकादित्यसमूहवत्कृताविकलपदार्थप्रकाशस्य सविसहस्रवद्धास्वरत्वात्केनाप्य. नभिभवनीयस्य जिनवचनस्यापूर्वमाहात्म्यज्ञापनात्मकस्तुतिरूपं शिष्यप्रशिष्यादावेतत्प्रकरणाध्ययनाविच्छेदार्थचाऽन्तिममङ्गलं प्रतिपिपादयिषुः जिनवचनयथार्थगुणस्तक्करणकलालसो विश्वविश्वार्यक्रमाब्जश्रीहरिः प्रकरणपरिसमातावन्तिमगाथामाह
भई मिच्छादसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स भगवओ, संविग्गसुहाहिगम्मस्स ।। ६९ ॥
भई' इत्यस्य 'जिणवयणस्स' इत्यनेनान्वयः, भद्रं-कल्याणं यथास्थिततत्वज्ञानोत्पादनद्वारा भव्याङ्गिवाताखण्डाऽप्रतिद्वन्द्वाऽऽनन्दसन्दोहाऽप्रतिघातिनीरुषत्वप्रापकत्वं सर्व वाक्यं क्रियया परिसमाप्यत इतिवचनात् अस्त्विति शेषः, रागद्वेषमोहान् भावारीन् जयन्तीति जिनाः, उच्यते यत्तद्वचनम् , जिनानां वचनं जिनवचनं तस्य,जिनप्रणीतवचनस्येति यावत् , अनेनास्य 'जिणाणं सासनं सिद्धं' इत्यनेनोक्तं विशिष्टपुरुषप्रणीतत्वनिवन्धनं प्रामाण्यं निगमयति, " सधणयमयं जिणवयणं " इत्यागमोक्तिमनुस्मरबाह-'मिच्छादसणसमूहमद यस्स' इति-मिथ्यादर्शनसमूहम यस्य-एकान्ततत्तन्नयप्रसुतनिखिलपरसमयार्थविषयताव्या. पकविषयताकबोधोत्पादकस्य, अथवाऽत्रावयवार्थे मयट्प्रत्ययविधानान्मिथ्यादर्शनसमूहा नैगमादयः, " एकेको वि सयविहो" इत्यावश्यकनियुक्तिवचनात् एकैकस्य नैगमादेनयस्य शतभेदत्वेन पूर्व प्रतिपादितत्वात् शतशतप्रभेदविशिष्टा नया: परस्परसापेक्षतत्तभयवाक्यवातघटिततया अवयवा यस्य तन्मिथ्यादर्शनसमूहमयं, तस्य । सर्वैरेव ह्येकैकांशमाहि. भिर्नयैर्मिलितैः सम्पूर्णमनन्तधर्मात्मकं वस्तु निश्चीयते इति तनिश्चयजनकत्वाद्भगवच्छासनं नयसमूहात्मकं प्रमाणम् , अत एव सम्पूर्णाभिमतफलसाधकम् , तदन्यशासनं त्वेकयादिनय. मात्रमतावलम्बित्वेन समग्रनय विकलमप्रमाणम् , अतो न सम्पूर्णाभिमतफलसाधकं विकलक्रियावत् , यथा भिषकप्रतिचारकातुरौषधाद्यन्यतराङ्गविकला क्रिया न संपूर्णाभिप्रेतफल. साधनी तथाऽन्यशासनमपि । जिनशासनं तु सकलनयात्मकाविकलाङ्गसम्पनत्वेन न तथा. विधमित्थंभूतस्य तस्य । ननु मिथ्यादर्शनानां तत्तत्रयप्रसृतपरप्रवादानां प्रत्येकावस्थायां मिथ्याष्टित्वात् तत्समूहेऽपि प्रचुरविषलवसमुदाये विषप्राचुर्यवत् महामिथ्यादृष्टित्वप्रसच्या तन्मयं जिनवचनमपि कथं सम्यम्भावं प्रपद्यते, यतो न हि विषकणिकासमूहमयं किमपि वस्तु अमृतभावं प्रपद्यमानं केषामपि दृष्टिगोचरं भवतीति चेत्, मैवम् , वस्तुतश्चानव
"Aho Shrutgyanam"