________________
सम्मति• काण , पा. " सम्पविक्रयोभयवान् पुरुषो भयेभ्यो मुच्यते उभयसंयोगवश्वात् , महाऽऽरण्यदाहमीतान्धस्कन्धारूढपलवदिति । तदुक्तं विशेषावश्यकनियुक्तौ-- " संजोगसिद्धीए फलं वयंति, न हु एकचक्केण रहो पयाइ ।
अंधो य पड्गू य वणे समिचा, ते संपउत्ता नगरं पविट्ठा ॥१॥" इति । . एतदर्थसंवादकतयोक्तश्चान्यत्र
"चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपः ।
गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥१॥" इति । यद्वा सम्यकक्रियासम्यग्ज्ञानोभयं इष्टफलसिद्धिजनकं परस्परसहकारित्वात् , अन्धपरसम्यकक्रियाज्ञानोभयवदिति । नन्वनेन ज्ञानक्रियाभ्यां द्वाभ्यां जन्ममरणभयविमुक्तिलक्षणमोक्ष इति प्रतिपादितम् ।
" नाणं पयासयं सोहओ, तवो संजमो य गुत्तिकरो।
तिण्हं पिसमाओगे, मोक्खो जिणसासणे भणिओ ॥११६९॥" इति ॥ विशेषावश्यकनियुक्त्या तु ज्ञानतपःसंयमेभ्यस्त्रिभ्यो मोक्ष इत्यभिहितमिति कथं न विरोध इति चेद, अज्ञानविलसितमेतत् , तपःसंयमयोः क्रियारूपत्वेन तयोः क्रियायामेवान्तर्भावात् । तदुक्तम्-- __ "संजमतवोमई जं संवरनिवरफला मया किरिया ।
तो तिगसंजोगो वि हु, ताउ चिय नाण-किरियाओ॥११७४॥" इति । एतेन सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति तत्त्वार्थाधिगमाद्यसूत्रेणापि सह विरोधो निरस्तः, यतो ज्ञानग्रहणेनैवेह सम्यग्दर्शनमाक्षिप्यते, तदन्तरेण तस्याप्यभावात् , मिथ्यादृष्टिज्ञानस्याज्ञानत्वेन पूर्वमेव प्रतिपादनात् । यद्वा मतिज्ञानस्यैव रुचिरूपो योऽपायांश: स्तद्रूपत्वेन सम्यग्दर्शनस्य ज्ञानात्मकतया सहनयाभिप्रायेण सम्यग्दर्शनज्ञानयोनित्वेन रूपेणैकत्वविवक्षणादिति, गोवृषन्यायेन सम्यग्दर्शनज्ञानयोः पृथग् विवक्षया तु सम्यग्दर्शनादित्रितयस्यैव मोक्षानुकूलैकशक्तिमत्त्वावच्छिन्नकारणत्वलक्षणं मोक्षमार्गत्वं तस्वार्थाधिगमायसूत्रेण विहितमिति सर्वमवदातम् । ननु सम्यग्दर्शनादित्रयस्य ज्ञानक्रियोमयस्य वा मोक्षकारणत्वमस्तु तथापि तत्केन रूपेणेति चेत् , उच्यते, अन्वयव्यतिरेकाभ्यां कार्यकारणभावग्रह इति ताभ्यां सम्यग्दर्शनत्वेन सम्यग्ज्ञानत्वेन सम्परचारित्रत्वेन यद्वा ज्ञानत्वेन क्रियात्वेन प्रत्येकरूपेण मोक्षम्प्रति स्वेतरसकलकारणसहकृतस्य सम्यग्दर्शनादे कारणत्वग्रहात्तत्तयापेक्षयकैकस्यापि परस्परसापेक्षस्य कारणत्वम्, सामग्री
"Aho Shrutgyanam