________________
सम्मति० काण्ड ३, गा० ३८ अन्यप्रकारस्य द्रव्यस्यामावाद, अत्र व्यवहारनयाऽभिमते दीर्घ कार्योत्पत्तिकाले मित्र कालानां तदुत्पत्तिनाशस्थितीन प्रत्येकं कालत्रयस्पर्शिविलक्षणयोगेन सप्तविंशतिर्मगाः, मिनकालानां च कालत्रययोगेन सप्तविंशतेत्रिधा गुणने एकाशीतिर्भङ्गा यथा भवन्ति तथा--- "यद्यते तदिह वस्तु ग्रहीतमेव, तद्यते च न च यत्तु गृहीतमास्ते । इत्थं भिवामपि स किन विवांकरोतु,यः पाठितो भवति लक्षणभङ्गजालम् ॥५४॥"
इति श्लोकटीकायामस्मत्कृतमहावीरस्तवकल्पलतिकाख्यायां प्रदर्शिता इति मगजालजिज्ञासुभिस्तत एव ते वेदितव्याः । अत्र अन्धगौरवमीत्या न प्रतन्यन्त इति ।। ३७॥
नन्वन्तरगमनलक्षणस्य विनाशस्य विभागजस्य चोत्पादस्यासम्भवात् तवयामावे स्थितेरप्यभावात् तत्रैकाल्यं दरोत्सारितमेवेति मन्यमानान् वादिना प्रति तदम्युपगमप्रदर्शनपूर्वकमाह
दव्यतरसंजोगाहि केचि दवियस्स बेंति उप्पायं ।
उपायथाऽकुसला विभागजायं ण इच्छति ॥ ३८ ॥ संयोगानां द्रव्यम् । अ. १, आ. १, सू० २८ । इति वैशेषिकसूत्रस्य निस्स्पर्शानां द्रव्याणामन्त्यावयविनां च विजातीयद्रष्याणां च ये संयोगास्तान् विहाय बहूनां तत्त. तन्त्वादिसंयोगानां पटादिरूपमेकं द्रव्यं कार्यम्, अर्थात् अनेकेभ्यस्सजातीयतन्त्वादिसंयोगेभ्य एकं पटादिकार्यमुत्पद्यत इत्यर्थकस्य बलाद्वैशेषिकादयो यथा कार्यद्रव्योत्पादं व्यावर्णयन्ति तथा प्रदर्शयितुं पूर्वार्द्धमाह-" दवंतरसंजोगाहि केचि दवियस्स ति उप्पाय" केचि' केचिद्वैशेषिकनैयायिकादयः 'दवियस्स' पटादिकार्यद्रव्यस्य 'दई. तरसंजोगाहि' द्रल्यान्तरसंयोगैः, तन्मतेऽवयवावयविनोमदात्स्वमिनस्वीयावयवभूत. तन्वादिसंयोगैरनेकैः, अथवा तन्मते सजातीयासजातीयोत्पत्त्यभ्युपगमात् पृथिवीत्वेन सजातीयैस्तत्तत्तत्वाद्यवयवात्मकद्रव्यान्तरैस्तदन्यतन्त्वाद्यवयवलक्षणद्रव्यान्तराणां संयो. गैरसमवायिकारणभूतैः तत्तमिमिससह कृतैस्समवायिकारणे ' उपाय बेति' कार्यद्रव्योत्पादं ब्रुवते, अवयविकार्यद्रव्यं निमित्तकारणाऽसमवायिकारणसमवायिकारणत्रयेभ्य उत्पद्यत इति वदन्ति, द्वयोस्तन्त्वोस्संयोगेनापि तत्तग्निमित्तसहकृतेन द्वितन्तुकपटस्य तन्तौ, कपालद्वयसंयोगेनापि च कपाले समवायिकारणे घटस्योत्पादाभ्युपगमात्तदुपलक्षकमेतत् , ते चोत्पादविषयकयथार्थज्ञानाः किं वा नेत्यारेकायामाह-' उपायथाऽकुसला' उत्पादार्थाऽकुशला उत्पादानभिज्ञाः, 'विभागजायं ण इच्छन्ति ' विमागजातमुत्पादं नेच्छन्तिनाभ्युपयन्ति, आरम्मकसंयोगस्यैव कार्यद्रव्यासमवायिकारणत्वेन तैरभ्युपगमात्तद्र्पकारणाभावादिति भावः ।। ३८॥
"Aho Shrutgyanam"