________________
सम्मति० काण्ड ३, पा० ३७
३१६ तत्र च तन्त्वन्तरसंयोगे त्रितन्तुकादिपटक्रमेणान्त्यतन्तुसंयोगे सत्येव महापटोत्पत्तिरिति नोक्तं युक्तमिति वाच्यम्, समवायसम्बन्धस्य सखण्डकारणत्वस्य च निषिद्धत्वेन समवाय्यसमवायिनिमित्तकारणेभ्यस्त्रिभ्यः कार्योत्पत्तिरिति गौतमीयप्रवादस्याश्रद्धयत्वेन प्राप्रति. पादनात् शक्तिरेव कार्योत्पादिकेति प्रथमतन्तुप्रवेशकालेऽप्यंशतस्साऽस्त्येवेत्युत्पद्यमानमपि पटद्रव्यं तद्रूपकारणवशात्तदानीं किञ्चिदशेनोत्पमित्यभ्युपगन्तव्यम् , संवदति चैनमर्थ "चलमाणे चलिए जाव निअरमाणे निअिण्णे" इति भगवद्वचनम् । यथा चोत्पद्यमानं पटादिन्यं प्रथमतन्तुप्रवेशसमये किश्चिदंशेनोत्पन्नं तथैव द्वितीयतृतीयादितन्तुप्रवेशसमयेऽप्यपरापराशेनवोत्पन्नमभ्युपगन्तव्यम्, नोत्पन्नांशेनैव, तथा सति तस्मिन्नेव कार्याशे द्वितीयतृतीयादिसमयभावितन्तुक्रियाच्यापाराणां व्यग्रतया तैरपूर्वापूर्वाशेन कार्योत्पत्तिर्न स्यादित्यशेषांशविशिष्टपटादिकार्योत्पत्तिः कदापि न स्यादिति प्रथमतन्तुप्रवेशादारभ्यान्त्यतन्तुसंयोगावधियावत्प्रबन्धेनोत्पद्यमानं तत्तदंशेनोपनम् , तदेव चाभिप्रेतरूपतयोत्पत्स्यते इत्युत्पद्यमानमुत्पन्नमुत्पत्स्यमानश्च भवति । एवमुत्पन्नमप्युत्पद्यमानमुत्पत्स्यमान तथैवोत्पत्स्यमानमप्युत्पद्यमानमुत्पन्नश्च ज्ञातव्यमित्येवमेकैकमुत्पनादि. कालत्रयेण त्रैकाल्यं यथा प्रतिपद्यते तथा विगच्छदादिकालत्रयेणाप्युत्पद्यमानादिरेकैकस्ले. काल्यं प्रतिपद्यते, तथाहि-यद् यदैवोत्पद्यमानं तत्तदैव किश्चिदंशेन विगतं विगच्छद् विगमिष्यच, एवं यदेव यदैवोत्पन्नं तदैव तदपि विगतादिकालत्रयसंस्पर्शि ज्ञेयम् । एवमेवोत्पत्स्य. मानमपि द्रव्यं तथैव तद्रूपं ज्ञेयम् । एवमेवोत्पन्नोत्पद्यमानोत्पत्स्यमानभेदाः प्रत्येकशो विगतविगच्छद्विगमिष्यद्रूपैरिव स्थिततिष्ठत्स्थास्यद्रूपैरपि सप्रभेदा ज्ञेयाः, एवं स्थितिविगमावपि कालत्रयस्पर्शिविलक्षणयोगेनोत्पत्तिप्रणालिकया सप्रभेदी विज्ञातव्याविति, न चैते भेदाः कल्पनामात्रनिर्मितवपुषो, निपुणं निरूपणे प्रज्ञावद्भिः परमार्थस्वरूपतयैव सर्वेषामेवाकलनात् । यत्तु क्त्तेमानप्रागभावप्रतियोगित्वं भविष्यवं वर्तमानध्वंसप्रतियोगित्वं चातीतत्वमिति न वर्चमानक्रियाकाले कालत्रयवाचिप्रत्ययप्रयोगसम्भव इति नैयायिकादीनां मतम् , तत्स्थूलव्यवहारैकान्ताभिनिवेशविजृम्भितम् , नयविशेषेणैकदा त्रैकाल्यस्पर्शस्य सर्वसम्मतत्त्वात् , अन्यथोत्पत्तिकाले उत्पन्नोऽयमिति प्रत्ययस्य भ्रान्तत्वापत्तेः, सामुदायिकोत्पादे स्थूलकालभाविनि ऐकत्विकोत्पादानां सूक्ष्मकालस्पर्शिनां त्रैकाल्यस्पर्श तु न काचिदनुपपत्तिः, तस्मादर्तमानक्रियाकाले कालस्य स्थूलत्वसूक्ष्मत्वाभ्यां त्रैकाल्यं नयविशेषेण यौक्तिकमेवेति सिद्धा यथो. क्तमाः । सैद्धान्तिकास्तु क्रियाकालनिष्ठाकालयोरभेदात्सभागसन्ततिपतिततया निष्ठाभविष्यत्तयोः समावेशाच्चै कक्षणेऽपि कालत्रयवाचिप्रत्ययार्थाऽविरोधमादिशन्ति । तदेवं सर्वै. रेमिर्षमैत्रिकालस्पर्शिभिरविनाभूतं द्रव्यं प्रज्ञापयंत्रिकालविषयं विशेषयति, अनेन प्रकारेण त्रिकालविषयं द्रव्यस्वरूपं प्रतिपादयद्वाक्यं प्रमाणम् , तद्व्यतिरिक्तं तु वाक्यमप्रमाणम् ,
"Aho Shrutgyanam"