________________
अम्मति० काम , मा. कदम गन्यश्चमेदस्य ब्रह्मत्वावच्छेदेन तदमेदस्य चाविरोध औपनिषदामिमतोऽपि नं. स्वादिति भावः ।। ३६ ॥
अथ यथा भिन्ननिरूपितानामुत्पादादित्रयाणामेककालीनानामेकद्रव्याभिमानां परस्परस्वरूपत्वमिति हेतोस्तदन्तर्गत प्रत्येकमेकैकं रूपमुत्पादादित्रयात्मकम् , अन्यथा तदसत्वापश्या वस्तु अनेकान्तात्मकम् उत्पादव्ययध्रौव्यात्मकसल्लक्षणशालित्वात् ,यमेवं तन्मेवम् , वियत्कुसुमवदित्यनुमाने वस्त्वात्मकपक्षकदेशे उत्पादे व्यये ध्रौव्ये चैकैकस्मिन् हेतोरमावेन भागासिद्धिस्स्यात् , तथा भूतवर्तमानभविष्यत्कालत्रययोगेनाप्येकैकं रूपं त्रिकालतामासादयतीति प्रतिपादयितुमाह
उपजमाणकालं उप्पणं ति विगयं विगच्छंतं ।
दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥ ३७॥ 'उप्पञ्जमाणकालं ' उत्पद्यमानकालमित्यनेनाद्यसमयादारभ्योत्पत्यन्तसमयं गावदुत्पद्यमानत्वस्येष्टत्वाद्वर्तमानमविष्यत्कालविषयं द्रव्यमुक्तम् , ' उप्पण्णं ' उत्पनमित्यनेन त्वतीतकालविषयम् , एवं विगयं' विगतमित्यनेनातीतकालविषय, “विगच्छंत' विगच्छदित्यनेन च वर्तमानमविष्यत्कालविषयं द्रव्यमुक्तम् , ततश्चोत्पद्यमानमुत्पन्नं विगतं विगच्छन् "दवियं पण्णक्यंतो" द्रव्यं प्रज्ञापयन् प्रज्ञस्तद् विसेसेह' विशेषयति विशिनष्टि, कथं ? 'तिकालविसयं ' त्रिकालविषयं यथा भवतीत्येवं गाथार्थः । भावार्थस्त्वयम्-यद्यपि निश्यनयेनैकस्मिन्नेव कार्योत्पत्त्यनुकूलव्यापारान्त्यसमये कार्योत्पत्तिरिति स एव कार्योत्पत्तिकाल: " भतिर्येषां क्रिया सैव कारणं सैव चोच्यते " इति वचनात , तथापि व्यवहारनयेन दीर्षः क्रियाकाल आंशिककार्यक्षणकोटिविषयोऽभ्युपगता, तथा च तस्मिन् दीर्षे कार्योत्पत्तिकाले विवक्षितकार्यस्य यस्मिन् समये वर्तमानपर्यायोत्पत्तिस्तस्मिन्नेव समयेऽतीतपर्यायविनाशः, विनाशपूर्वकत्वादुत्पत्तो, उत्पतिविनाशक्रिये निराधारे न सम्भवत इति तदाधारद्रव्य. स्थितिरपि तदाऽभ्युपगन्तव्येत्येवममिन्नकालानामुत्पादादित्रयाणां प्रत्येकमेकपर्मिसंसर्गि: तया त्रैकाल्यं तेन नयेन प्रतिपाद्यते, तथाहि-पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एव किञ्चिदशेनोत्पन्नो भवति तत्रोत्पद्यमानत्वं तस्य प्रथमवन्तुप्रवेशकालादारभ्य पट उत्पद्यत इत्येवं व्यवहारदर्शनात्प्रसिद्धमेव, उत्पनत्वं तूपपच्या प्रसाध्यते, तथाहिउत्पद्यमानः पट: प्रथमतन्तुप्रवेशकालावच्छेदेन किञ्चिदंशेन नोत्पमश्वेत्तदाऽऽद्यक्रियाया वैयध्ये स्यात्, यथा चाधक्रियया नोत्पन्नस्तथैवोत्तरक्षणेष्वप्युत्तरक्रियाभिनोत्पमस्स्यात्, को झुत्तरक्षणक्रियाणां विशेषो ? येन प्रथमया नोत्पमस्तदुत्तराभिस्तूत्पत्स्यते, अतः सर्व दैवानुत्पचिप्रसङ्गा, दृष्टा चोत्पत्तिा, अन्त्यतन्तुप्रवेशे पटस्य दर्शनात् । न च तन्तुसंयोगः स्यैव पटत्वावच्छिदं प्रत्यसमवायिकारणत्वात्तन्तुक्रियया तन्तुद्वयसंयोगे द्वितन्तुकपढोस्पतिः,
"Aho Shrutgyanam"