________________
सम्मति का ३, गा. ३६ लता अत एवाऽभिन्नरूपता च प्रतीयते,आकुचनादिपूर्वपर्यायरूपेण परिणतमेवाङ्गुलिद्रव्यमाकुश्शनादिपूर्वपरिणामपरित्यागकाल एवं प्रसारणाद्यात्मकोत्तरपर्यायरूपेण परिणमत इत्येकस्यैव द्रव्यस्य तथापरिणामात्मकस्य यैवाङ्गुलिः पूर्वमाकुचिता सैव प्रसारितेति प्रत्यभिज्ञाप्रमाणतः प्रतीतेः । एतेन ये क्षणिकान् पदार्थानभ्युपयन्ति त एवं प्रतिपादयन्ति-उत्पतिसमनन्तरमेव स्वभावतो विलीयन्ते, न हेतुमपेक्षन्ते ध्वंसमानाः, स्वात्मलाभक्षणानन्तरं क्ष्यः षण उच्यते, निरुक्तविधानात् , तद्योगाद क्षणिकमिति । तथा चोक्तम्
क्षणो वाचेह नैरुक्तैरुत्पत्त्यनन्तरं क्षयः। निहेतुः सोऽनपेक्षत्वात् , तद्योगात् क्षणिकं मतम् ॥ १॥ इति ।
यथा पयाप्रदीपादयः प्रतिक्षणमन्ये चान्ये चोत्पद्यन्ते निरवशेषपूर्वनाशसमकालम् , एवमन्येऽपि महीध्रादयः इति, तन्मतमपास्तम्, पयःप्रदीपादिषु परिणामभावस्येव सद्भावेन सर्वथाऽन्यथात्वाभावात् , पूर्वोत्तरपर्यायानुगतोव॑तासामान्याख्यद्रव्यं स्वजात्यनुच्छेदेनैव कश्चित्पूर्वपर्यायं परित्यज्य पर्यायान्तरमुपादत्ते, पुद्गलत्वचैतन्यजात्यनुच्छेदेन तस्य तस्य तथाभावः परिणामः, सोऽन्यत्वबुद्धेः कारणम् , उत्कणविफणाकुण्डलप्रसारणाधनेकावस्थसर्पवदेकमन्वयि यद्व्यं तत्परिणमते, न तु सर्वथा पूर्वोच्छेदेनान्य उत्पद्यत इति, इत्थश्च ये यद्भाव प्रत्यनपेक्षास्ते तद्भावनियताः, यथान्त्या कारणसामग्री स्वकार्योत्पादनं प्रति, विनाश प्रत्यनपेक्षाश्च भावा इति विनाशनियतास्ते इति परेषां बौद्धानामभिधानमपि न प्रकृतबाधकम् , प्रत्युतानुकूलमेव, मावस्योत्तरपरिणामं प्रत्यनपेक्षतया तद्भावनियतत्वोपपत्तेः, पूर्वोत्तरपरिणामान्वयिद्रव्यगतपूर्वपरिणामस्य स्वयमेवोत्तरपरिणामी भवत उत्तरपरिणाम प्रत्यपरा. पेक्षाऽभावतस्तं प्रतिक्षेपायोगात् , तथा च नैकान्तक्षणिकत्वं युक्तम् । नन्वेवं तर्हि जलोमिवदुत्पादव्ययादिविकाराः काल्पनिका एवेति कूटस्थमेव नित्यं द्रव्यमस्त्विति चेत्, मैवं वद, यतो जलोर्मयोऽपि नैव काल्पनिकाः, तेषां प्रेक्षादक्षैरपि प्रत्यक्षप्रमाणेनानुभूयमानत्वेन वस्तु. भूतत्वात् , ततो जले पूर्वापरोर्मय इव पूर्वापरपर्यायानुगतप्रतीतिविषयीभूतद्रव्ये पूर्वापरस्वपर्यायाः प्रतिक्षणं विनश्यन्ति समुत्पद्यन्ते च । तदुक्तम्- अनायनिधने द्रव्ये, स्वपर्यायाः प्रतिक्षणम् ।
उन्मजन्ति निमज्जन्ति, जलकल्लोलवजले ॥ १ ॥ इति । - तदेवं पूर्वापरोमिभावेन जलमेव यथा परिणमते, तथैव तत्तद्रव्यमेव पूर्वापरपर्यायरूपेण परिणमत इति परिणामवाद एवं न्याययुक्तः, उत्पादविनाशादिविकाराणां काल्प. निकत्वे प्रमाणामावात् , प्रेक्षावद्भिर्यथार्थतयैव ग्रहणाद, न चोत्पादादित्रयाणां विरोधा, पर्यायत्वावच्छेदेनोत्पादव्यययोर्द्रव्यत्वावच्छेदेन धौम्यस्य चाविरोधात्, अन्यथा . गोवा
"Aho Shrutgyanam"