________________
३१०
सम्मति कान्ड २ - ०-३६.
अनर्थान्तरं विनाशेन सहोत्पादस्यैककालत्वात्, यावेककालौ तावनर्थान्तरम्, कक्षणafर्त्तिरूपम्, एककालौ चोत्पादविनाशाविति सावनर्थान्तरमिति, एवमेव धौम्योत्पादधौव्यविनाशात्मकद्वयेऽनर्थान्तरता भावनीया, उक्तहेतूक्तदृष्टान्तबलादेव यथा चोत्पादादीनाममिमकालत्वमनर्थान्तरत्वञ्च तथैव घट उत्पद्य कञ्चित्कालं स्थित्वा विनश्यतीत्यतो भिन्नकालत्वमत एवार्थान्तरत्वश्च भावनीयम् । अनुमानप्रयोगश्चात्र एकप्रतियोगिनिरूपिता उत्पादादयो नान्योन्यमेकतां विभ्रति, अत्यन्त पृथग्भूतस्वरूपत्वादत्यन्तभिन्नकालत्वाच्च घटव्योमादिवत् । एवमुत्पादादयोऽर्थान्तरं मिथस्स्वलक्षणभेदात् घटपटादिवदित्यप्यनुमानं ज्ञेयम् । एवं भिन्नाभिकालतोत्पादादीनामर्थान्तरताऽनर्थान्तरता च स्याद्वादप्रक्रियायां सकलप्रमाणाऽविरोधिनी सिद्धिकोटिमुपढोकते, न स्वेकान्तवादप्रक्रियायाम्, तत्रोत्पादादित्रयाणां तत्र च मिन्नाभिन्नकालत्वादेरनभ्युपगमादिति भावः ॥ ३५ ॥
उक्तार्थस्पष्टीकरणार्थमेव प्रत्यक्ष प्रतीतमुदाहरणं प्रतिपादयितुं सूरिराहजो आउंचणकालो, सो चेव पसारियस्स वि ण जुत्तो । तेसिं पुण पडिवत्ती - विगमे कालंतरं नत्थि ॥ ३६ ॥
' जो आउंचणकालो' अङ्गुल्यादेर्द्रव्यस्य य आकुश्चनकाल: " सो चैव पसारियस विण जुचो " स एव प्रसारितस्यापि न युक्तः, अङ्गुल्यादेः प्रसारणस्यापि स एत्र कालो न युक्त इत्यर्थः । यदैवाङ्गुलिः आकुच्यते न तदैव प्रसार्यते, यदैव च सा प्रसार्यते न तदैवा कुच्यते, किन्तु भिन्नकाल एवेत्यङ्गुल्यादिद्रव्यस्याकुञ्चनात्मक पूर्वपर्ययविनाशकाल एव प्रसारणात्मकोत्तर पर्यायोत्पत्तेः तयोः पूर्वोत्तरपर्याययोर्मिन कालावच्छेदेनैव प्रतीतेर्भेदः, अत एव निकालः, अन्यथा तयोरुसङ्कीर्णतापच्या स्वीपासाधारणस्वरूपं परित्यक्तं स्यात् । कथञ्चित्तत्तत्पर्यायाऽभिन्नस्याङ्गुल्यादिद्रव्यस्यापि पूर्वोत्तरपर्यायविशिष्टतया भिन्नस्वभावत्वात् तदपि भिन्नमभ्युपगन्तव्यम्, यतो न हि भिन्नस्वभावमभिन्नरूपं युक्तम्, स्वभावभेदेनैव कथश्चिद्भेदाभ्युपगमात् । आकुञ्चनप्रसारणपर्याययोस्तद्विशिष्टद्रव्यस्य च भिन्नकालत्वमत एव भिन्नत्वं पूर्वार्द्धन प्रतिपाद्याङ्गुलिद्रव्यमेव प्रसारणभावमवलम्बमानमाकुञ्चनभावेन यदैव विनष्टं तदैव प्रसारणभावेनोत्पन्नमङ्गुलित्वेन सामान्यात्मनाऽवस्थितमित्या कुश्च नात्मक पूर्वपर्यायविनाशप्रसारणात्मकोत्तरपर्यायोत्पादाङ्गुलित्वावच्छिन्नाङ्गुलिद्रव्यावस्थिती नामभिन्नका लतामत एवाभिन्नरूपतां प्रतिपादयितुमुत्तरार्द्धमाह -- ' तेसिं पुण पडिवत्तीविगमे ' ' तयोः पुनः प्रतिपत्तिविगमे' प्रतिपत्तिश्व विगमश्च प्रतिपत्तिविगम, अनयोरसमाहारः प्रतिपत्तिविगमं, तस्मिन् प्रतिपत्तिः प्रादुर्भावः, विगमो - विनाशः, प्रसारणात्मकोत्तर पर्यायस्योत्पत्तिः आकश्चनात्मक पूर्व पर्यायस्य विध्वंसः तत्र, 'कालंतरं नत्थि ' कालान्तरं भिन्नकालत्वं नास्ति । आकुञ्चनात्मकपूर्वपर्ययविनाशप्रसारणात्मकोत्तरपर्यायोत्पत्यङ्खलिद्रव्यावस्थितीनामभिन्नका
"Aho Shrutgyanam"