________________
सम्मति० काग २, गा• ३७ आओ" इति । एतद्भावमपेक्ष्यैवोक्तं नन्दीसूत्रे-"केवलनाणे दुविहे पण्णत्ते भवत्थकेवलनाणे य सिद्धकेवलनाणे य" इति । नन्वेवं तर्हि केवलज्ञानमपर्यवसितं किमपेक्ष्य शास्त्रे गदित. मित्याशङ्कानिवृत्यर्थमुत्तरार्द्धमाह- केवलभावमित्यादि । केवलभावं तु प्रतीत्य-अपेक्ष्य, "केवलं-दाइयं सुत्ते" केवलज्ञानं दर्शितं सूत्रे, अपर्यवसितमिति शेषः। तत्तत्पूर्वोत्तरपर्यायपरि. त्यागोपादानभावेन विनाशोत्पत्तिशीलमपि प्रतिक्षणक्षेयपरिणति भेदेन समयभेदेन च प्रतिक्षणभिन्नस्वरूपमपि च केवलज्ञानं नैव कदापि तत्तत्पूर्वोत्तरपर्यायानुगतं केवलमा केवलोपयोगमावं द्रव्यपर्याययोः कथञ्चिदभेद इति कथश्चिदात्मद्रव्याव्यतिरिक्तत्वात् तमित्यत्वेन तद्वारा नित्यस्वरूपं परिजहातीत्येतावता तदपर्यवसितमिति सिद्धान्ते गीयते इति भावः । तथा च केवलज्ञानस्य घातिकर्मचतुष्टयक्षयेणोत्पत्तिभावात्तत्सादिः तदनन्तरं शुद्धस्वभावव्यञ्जनपर्यायापेक्षितध्रुवसत्ताविनाशकसामग्यभावात् प्रतिक्षणं ज्ञेयभेदप्रयुक्तनिखिलतत्त. ज्ज्ञेयावगाहित्वस्वभावभेदतत्तत्समयविशिष्टत्वस्वभावभेदभित्रकेवलज्ञानानन्तार्थपर्यायानुगतव्यञ्जनपर्यायात्मकेन केवलभावेन न तत्कदाऽपि विनश्यति, विनाशाभावाच न तद्रूपेण तत्पुनरुत्पद्यत इति तदुभयामावात् केवलज्ञानोत्पत्तिप्रथमसमयादेव केवलभावेन सर्वदा ध्रुवत्वादपर्यवसितम्, अष्टकर्मविगमेन सिद्धस्वरूपावाप्सौ केवलज्ञानस्य पुनः पूर्ववत्सिद्धत्वेन सिद्धस्थकेवलज्ञानाख्योऽर्थपर्याय उत्पन्न इति भवस्थकेवलज्ञानपर्यायसिद्धकेवलज्ञानपर्यायाभ्यां विनाशोत्पत्तिभावात्तत्सादिसपर्यवसितमप्यभ्युपगन्तव्यम् , अन्यथा त्रैलक्षण्याऽनुपपत्त्या सत्वमपि न स्यात्, न स्याच केवलज्ञानं स्यात्साद्यपर्यवसितं स्यात्सादिसपर्यवसितमित्यादिरूपेण सप्तमङ्गीसङ्घटनाऽपि तत्रेति भावनीयम् ॥ ३६ ॥
ननु जीवोऽनादिनिधनः केवलज्ञानं पुनस्साद्यपर्यवसितम् , तथा च केवलज्ञानं जीवस्वरूपाद्भिनं विरुद्धधर्माध्यस्तत्वात् , यच्च यतो विरुद्धधर्माध्यस्तं तत्ततो भिन्नं, यथा घटास्पटः, जीवाद्विरुद्धधमाध्यस्तं च केवलज्ञानं, तस्मात्तद्भिनमिति केवलज्ञानस्यात्मस्वरूपतामाश्रित्य तस्योत्पादविनाशाभ्यां केवलज्ञानस्य तौ भवत इत्युपपादनं कथं युक्तियुक्तमित्याशङ्कते
जीवो अणाइनिहणो केवलणाणं तु साक्ष्यमणंतं ।
इय थोरम्मि विसेसे कहं जीवो केवलं होइ ॥ ३७॥ 'अणाइनिहणो' आदि च निधनमन्तश्च आदिनिधने, ते न विद्यते यस्य सो अनादिनिधनः, एवम्भूतः क इत्याह-'जीवो' जीवति-प्राणान् धारयतीति जीवः । 'केवलगाणं तु साइयं केवलज्ञानं तु सादिकं, आदिना सह वर्तत इति सादिकम् आदिमत् , पुनस्तद्विशिनष्टि-'अणत' न विद्यते अन्तो यस्य तदनन्तम्-अपर्यवसितम् , ' इअ थोरम्मि विसेसे' इति स्थूरे स्थूलबुद्धिगम्ये विशेषे विरुद्धधर्माध्यासलक्षणे सति आत्मकेवलज्ञा
"Aho Shrutgyanam"