________________
सम्मतिः काम २, गा० ३५-३६ ण इच्छंति ' केचन विशेष विशेषपर्यायं पर्यवसितत्वात्मकं सन्तमपि नेच्छन्ति नाभ्युपगच्छन्ति । ननु किं ते सम्यग्वादिनः किं वा नेति चेत् , नेति जानीहि ॥ ३४ ॥ तदेवाह
जे संघयणाईया भवत्थकेवलिविसेसपज्जाया।
ते सिजमाणसमये ण होति विगयं तओ होइ ॥ ३५ ॥ 'जे संघयणाईया' ये संहननादयः-वज्रर्षभनाराचसंहननादयो यद्यपि शरीरधर्मत्वेन तत्पर्यायास्तथापि भवस्थकेवल्याऽऽत्मतच्छरीरयोदुग्धपानीययोरिखान्योन्यसम्बद्धतयैव व्यपस्थितेर्भवस्थकेवलिविशेषपर्याया इत्याह-'भवत्थकेवलिविशेषपजाया' इति, भवे तिष्ठतीति भवस्थः, स चासौ केवली-केवलज्ञानवान् भवस्थकेवली, तस्य विशेषपर्यायाः " ते सिज्झ. माणसमये न होंति" ते सिध्यत्समये सिद्धस्वरूपाबाप्तिसमये न भवन्ति, अपगच्छन्तीत्यर्थः। भवस्थकेवलिविशेषपर्यायतया तवंसे सति किं भवतीत्याशङ्कायामाह-“विगयं तओ होइ" विगतं ततो भवति । भवस्थकेवलिविशेषपर्यायापगमे भवस्थकेवलज्ञानपर्यायतया केवलज्ञानं विध्वस्तं भवति । अयम्भावः-उक्तभवस्थकेवलिविशेषपर्यायनाशे तद्विशिष्ट. केवल्यात्मविनाशः, विशेषणनाशे तद्विशिष्टनाशस्याप्यवश्यम्भावात् , शिखाविनाशे शिखी विनष्ट इति प्रतीतेः, न चात्रापि शिखात्मकविशेषणस्यैव नाशः, न तद्विशिष्टस्य इति वाच्यम् , एकान्ततया भेदेऽभेदे च विशेषणविशेष्यभावस्यावस्थाऽवस्थातृभावस्य चाऽयोगेन कथञ्चि द्विनाशस्यापि भावात् , तादृशात्मविनाशे च केवल्यात्माऽव्यतिरिक्तं केवलज्ञानमपि तद्वारा विनष्टमिति ॥ ३५ ॥
अथ केवलभावेनापर्यवसितस्यापि केवलज्ञानस्य पूर्वपर्यायात्मकभवस्थ केवलज्ञानपर्यायतया सिद्धिप्रथमसमये विनाशवत्सिद्ध केवलज्ञानपर्यायलक्षणोत्तरपर्यायरूपेणोत्पत्तिरप्यवश्यम्भाविनी, अपर्यवसितभावस्यापि तत्तदवस्थाविशेषनियतनाशोत्पादावश्यम्भावात् अन्यथा त्रैलक्षण्यासिद्धिस्स्यादिति प्रतिपादयितुम् , यद्वा विनाशस्योत्पत्तिनियतत्वात्केवल ज्ञानस्य भवस्थकेवलज्ञानरूपपूर्वपर्यायरूपेण विनाशं प्रतिपाद्य सिद्ध केवलज्ञानपर्यायात्मकोसरपर्यायरूपेणोत्पत्ति प्रतिपादयितुमाह
सिद्धत्तणेण य पुणो, उप्पण्णो एस अत्थपनाओ।
केवल भावं तु पडुच, केवलं दाइयं सुत्ते ॥ ३६ ॥ 'सिद्धत्तणेण य पुणो' सिद्धत्वेन-अनादिसन्तत्यागतकाञ्चनोपलसंयोगस्येवानादिजीवकर्मसंयोगस्य सोपायं यस्सर्वथा विच्छेदस्तत्प्रयुक्तात्मकर्मसर्वाशपृथग्भावलक्षणं यत् सिद्धत्वं अस्य पूर्व सिद्धत्वं नासीद किन्त्वधुनै तत्सञ्जातमिति प्रतीतिसिद्धेन तेन रूपेण एष सिद्धस्थकेवलज्ञानाख्यार्थपर्याय उत्पन्ना, प्रागसतः सत्तालाभादित्याह-" उप्पण्णो एस अत्थप
"Aho Shrutgyanam"