SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ૨૮ अम्मतिः काण २, पा. ३३-४ ज्ञानविशेषरूपाया रुचेः सम्यग्दर्शनशब्दवाच्यत्वात् , तथोक्तरुचिरूपं सम्यग्दर्शनं मुख्यम् , भाक्तं च तत् अनेकान्तागमवासनोपनीत सर्वाऽनेकान्तताऽवगाहिघटाधपायात्मकमपीति भावः ॥ ३२ ॥ ननु यस्मिनात्मनि सम्यग्ज्ञानं तस्मिनियमेन सम्यग्दर्शनम् , तव्यतिरेकेण सम्यग्ज्ञानत्वस्यैवानुपपत्तेरितिवद् यस्मिन् रुचिरूपं दर्शनं तस्मिनियमेन सम्यग्ज्ञानमस्ति न वेत्याशङ्कायामाह सम्मन्नाणे णियमे- देसणं दसणे उभयणिज्नं । सम्मन्नाणं च इमं, ति अधओ होइ उववणं ॥ ३३ ॥ 'सम्ममाणे णियमेण दंसणं' सम्यग्ज्ञाने नियमेन दर्शनं सम्यग्दर्शनम् , "दसणे उ भयणिज" दर्शने तु पुनर्भजनीयम् अस्ति न वेति विकल्पनीयम् , सम्यग्ज्ञानमिति शेषः । अनेकान्ततत्वाविषयकरुचिलक्षणसम्यग्दर्शने सति तदस्ति, एकान्ततत्वविषयकरुचिलक्षणदर्शने सति तन्नास्तीति भावः। अविशेषितदर्शनेन सह भजनोक्तावपि सम्यक्पदविशेषणे नेयं भजनेत्याशयेनोत्तरार्द्धमाह-सम्मन्नाणं चेत्यादि । ' इमं " इदमदसोः प्रत्यक्षे” इति वचनात् इदंशब्दप्रयोगः प्रत्यक्षविषय एवार्थे भवतीतीदमित्यस्य सम्यग्दृष्टिप्रत्यक्षविषयी. भूतमित्यर्थः । अस्य च सम्यग्ज्ञानमित्यनेनान्वया, चशब्दात्सम्यग्दर्शनम् । तथा चेदं सभ्यग्नानं सम्यग्दर्शनमित्यर्थत उपपन्नं भवति, अर्थापत्तिसिद्धमित्यर्थः, अयशार्थः तत्वाथेविवरणमनुसृत्योक्तः । यद्वा 'सम्मन्नाणं च इमं ति ' अतः सम्यग्ज्ञानं चेदंपदग्रावं सम्यग्दर्शनश्चेति “ अत्थओ होइ उपवनं " अर्थतः सामर्थ्यादेकमेवोपपत्रं भवति, तथा च सम्यग्दर्शनं मतिज्ञानापायांशरूपत्वाज्ञानविशेषरूपमेव, मिथ्यादर्शनमपि तद्ज्ज्ञानविशेषरूपमेवेति सिद्धम् ॥ ३३ ॥ सूत्रे च साद्यपर्यवसितं केवलज्ञानं दर्शितमिति तत्तत्वमजानानाः केचिदत्र व्याचक्षते, केवलज्ञानस्य प्रतिबन्धकं केवलज्ञानावरणमिति सर्वथा तदुच्छेदे सत्येव तदुत्पद्यत इति कारणो. पजायमानत्वाद् घटादिवत् तत्सादि, न चोत्पन्नं सत्तत्पुनर्विनश्यति प्रबलतरतद्विरोधिगुणा. न्तरामावेन तद्विनाशकसामध्यभावात् , न च कमोवरणेन पुनराब्रियते तत्, कारणाऽमावेन तदावारकनव्यकर्मवन्धाभावात् , विनाशाभावाच न पुनरुत्पद्यते, विनाशपूर्वकत्वादुत्पादस्येति पुनरुत्पादविनाशानात्मकं केवलम् , अत एवापर्यवसितमिति, तन्मतनिरासायाह केवलणाणं साई अपजयसियं ति दाइयं सुत्ते । तेत्तियमित्तोत्तुणा के विसेसं ण इच्छंति ॥ ३४ ॥ 'केवलणाणं साई अपञ्जवसियं ति' केवलज्ञानं साद्यपर्यवसितमिति · दाइयं सुत्ते' दर्शितं सूत्रे ' तेत्तियमित्तोत्तूणा' तावन्मात्रेण ता:-एतावन्मात्रेण गर्विताः ' केइ विसेसं "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy