________________
सम्मति काण्ड २, गा० ३१-३२
૪૭
परोक्षताया अपीत्थमेवोपपत्तेः । न्यायाचार्य महोपाध्याय पूज्यपाद श्री यशोविजय कृतत स्वार्थप्रथमाध्यायचतुर्विंशतितमसूत्रभाष्यविवरणोत्यनुसारेण तावत्पर्यन्तमेकोपयोगपक्षे यदि मनःपर्यायज्ञाने मनोद्रव्यवत् संज्ञिजीवचिन्तनीयघटादिवाद्यपदार्था अपि तद्विशेषणतया प्रतिभासन्ते तदा स्वं मनः पर्यायज्ञानं तद्ब्राह्यं मनोद्रव्यं तदवच्छेदेन मनःपर्यायज्ञानस्य प्रत्यक्षत्वेऽपि स्वग्राह्यतावच्छेदको घटादिवाद्यांशस्तदवच्छेदेन परोक्षत्वेन प्रत्यक्षत्वाभावान्न दर्शनत्वम्, अत्रत्यं विवेचनमस्मदृब्धतत्त्वार्थविवरण गूढार्थदीपिकातोऽव सेयमिति ॥ ३० ॥ तस्माद् द्वयात्मक एक एव केववलाबोध इति फलितं स्वमतमाह सूरिः -
साई अपज्जबसियं, ति दो वि ते ससमयं हवइ एवं । परतित्थियवत्तव्यं च एगसमयेतरुपपाओ ॥ ३१ ॥
पूर्वोक्तनीत्या केवलावबोधो द्वयात्मक एक एवेत्यभ्युपगमे स्वसमयः, अन्यथा परसमय इति तात्पर्यार्थः । एतद्गाथायास्तु पूज्याभयदेवसूरिभगवतैरेवमर्थः कृतः - द्वे अपि ते ज्ञानदर्शने यदि युगपन्न नाना भवतस्तदा स्वसमयः - स्वसिद्धान्तः साद्यपर्यवसिते इति घटते, यस्तु तयोरेकसमयान्तरोत्पादः “ यदा जानाति तदा न पश्यति " इत्येवमभिधीयते सं परतीर्थिकशास्त्रं नाईद्वचनं नयाभिप्रायेण प्रवृत्तत्वादिति । न्यायाचार्य श्री यशोविजयोपाध्यायाभिप्रायेण त्वेवं गाथाशब्दार्थः । साई अपञ्जवसियं ति ' साद्यपर्यवसितं केवलं शास्त्रे प्रोक्तमिति हेतोः ' दो वि ते ' द्वे अपि ते ज्ञानदर्शने, उभयशब्दवाच्यं तदिति यावत् । ' एवं ' एवमभ्युपगमे सति ' ससमयं हवइ ' स्वसमयः स्वसिद्धान्तोऽयं भवति, चस्त्वर्थे ' एगस्रमयंतरुप्पाओ ' यस्त्वेकसमयान्तरोत्पादः, तयोर्भण्यत इति शेषः, तत् " परतित्थियवत्त्वं " परतीर्थिकवक्तव्यं परतीर्थिकशास्त्रम् नाईद्वचनं नयाभिप्रायेण प्रवृत्तत्वादिति ॥३१ ॥ -
जिनप्रज्ञप्तनिखिलतश्वविषयकं भावतो यत्समूहालम्बनश्रद्धानं तल्लक्षणं सम्यग्दर्शनमपि मतिज्ञानस्यैव सम्यमुचिरूपो योऽपायांशस्तद्रूपमेव, न ज्ञानाद्यतेऽन्यदर्शनमस्ति, पृथग्विमागादिप्रक्रिया तु गोवृषन्यायात्, अत एव सम्यग्दर्शनत्वं सम्यग्ज्ञानत्वव्याप्यजातिविशेषः, विषयताविशेषो वा तदवच्छिन्ने च दर्शनावरणक्षयोपशमानामेकशक्तिमत्त्वादिना हेतुत्वमिति ज्ञानावरणविशेष एव दर्शनावरणमित्यभिप्रेत्याह
एवं जिणपण्णत्ते सहहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे दंसणसहो हवह जुत्तो ॥ ३२ ॥
"
' एवं ' अनन्तरोक्तविधिना ' जिणपण्णत्ते' अस्य ' भावे ' इत्यनेनान्वयाजिनप्रज्ञतान् भावान् ' भावओ सद्दहमाणस्स ' भावतः सम्यमुचिरूपतया श्रदधानस्य समूहालम्बनया कच्याऽवगृहतः 'पुरिसस्सा भिणिबोहे दंसणसदो हवइ जुत्तो ' पुरुषस्याभिनिबोधे मतिज्ञानापायांशरूपे दर्शनशब्दो भवति युक्तः, जिनप्रझतजीवाजीवादिपदार्थनवकविषयक समूहालम्बन
"Aho Shrutgyanam"