________________
'जे' यस्मात् 'अपुट्ठामावा' अस्पृष्टा मात्रा: परमाण्यादयः ते किमिरपाह'ओहिण्णाणस्स होइ पञ्चक्खा' अवधिज्ञानस्य भवन्ति प्रत्यक्षा, अश्नुते क्याप्नोति ज्ञानात्मना सर्वार्थान् , अनाति स्वः समृद्ध्यादीन, पालयति मुले वेति ' उणादिनिपातनात् ' अक्षो जीवा, तं प्रति साक्षाद् गतमिन्द्रियनिरपेक्षं वर्तते यत्तत्प्रत्यक्षमिति व्युत्पत्तिसिद्धं नैश्चयिकप्रत्यक्षमवधिज्ञानमपि, अवधिज्ञानावरणकर्मक्षयोपशम महकतात्ममात्रजन्यत्वेन वनेन्द्रियाय. पेक्षत्वाऽभावादित्यवधिज्ञानप्रत्यक्षविषया भवन्ति, तथा चोक्तदर्शनत्वपर्यवसितलक्षणषटकीभूतप्रत्यक्षपदेन सांव्यवहारिकप्रत्यक्षपारमार्थिकप्रत्यक्षसाधारणप्रत्यक्षत्वावच्छिमं ग्रामम् , तथाविधश्चावधिज्ञानमपीति तदात्मकमवधिदर्शनं सिद्धं भवति । तदेवोत्तरार्द्धनाह___ "तम्हा ओहिण्णाणे दंसणसदो वि उवउत्तो" तस्मादवधिज्ञाने दर्शनशब्दोऽप्युपयुक्ता, दर्शनाभिधाननिमित्तस्योक्तलक्षणस्य सद्भावेन सावकाश इति ॥ २९ ॥
अवधिज्ञाने पारमार्थिकविकलप्रत्यक्षत्वक्त् केवलज्ञानेऽपि पारमार्थिकसकलप्रत्यक्षतसद्भावेनोक्तलक्षणमव्याहतमित्याह
जं अपुढे भावे, जाणइ पासइ य केवली नियमा।
तम्हा तं नाणं द-सणं च अविसेसओ सिद्धं ॥ ३०॥ * अपुढे भावे ' यस्मादस्पृष्टान् भावान् केपली नियमा' करामलकास्केवलश्रिया विधविश्वतवं कलयन् केवली नियमात-अवश्यम्भावेन, 'जाणइ पामह य' जानाति पश्यति घ, सामान्य विशेषोभयप्राधान्येन, न तु गौणप्रधानमावेन, तस्य क्षायोपत्रमिक. ज्ञाननिवन्धनत्वात्, केवलिनस्तु क्षायोपशमिकभावातीतत्वाम तज्ज्ञानं क्षायोपथमिक ज्ञानात्मकमिति तनिमित्त कसामान्यविशेषगौणप्रधानमावस्य तत्राभावात् । 'तम्हा तं नाणं दसणं च' तस्मात्तत्केवलोपयोगरूपं ज्ञानं दर्शनश्चोभयरूपं 'अविसेसओ सिद्धं' उभयाभिधाननिमित्तस्याविशेषात्सिद्धम् , अयम्भाव:--केवलावबोधो न क्रमिकज्ञानोपयोग. दर्शनोपयोगान्यतरात्मका, न वा युगपज्ञानोपयोगदर्शनोपयोगभेदेनोपयोगद्यात्मका, अपि त्वेक एव धर्मी उभयाभिधाननिमित्तमद्धावाज्ज्ञानदर्शनोभयात्मक इति । मनापर्यायज्ञानस्य तु व्यञ्जनावग्रहाविषयार्थकप्रत्यक्षत्वेऽपि बाह्यविषये व्यभिचारेण स्वग्राह्यतावच्छेदका. वच्छेदेन प्रत्यक्षत्वाभावान दर्शनत्वमिति निष्कर्ष इत्युक्तं ज्ञानबिन्दौ । अयम्माव:-अजु. मतिविपुलमतिमेदतो द्विविधेनाऽपि चानेन मनःपर्यायज्ञानेन तत्तदर्थचिन्तनपरिणतानि मनोद्रव्याण्येव गृयन्ते, चिन्त्यमानास्स्तम्भकुम्भादयस्तु बाह्या पदार्था अनुमानेनैवाऽ. बगम्यन्ते, तावत्पर्यन्तमेकोपयोगाभ्युपगमेऽनुमित्यात्मकज्ञानस्य पक्षसाभ्यरूपं विषयांशे परोक्षत्वेऽपि मितिमात्रंशे स्वप्रकाशत्वपक्षे प्रत्यक्षत्ववन्मनोदव्यांशे प्रत्यक्षत्वेऽप्यत्र बायांशे परोक्षत्वमुपपादनीयम् , एकान्तप्रत्यक्षता तु स्ववाधावच्छेदेनैव वाच्या, लैङ्गिके एकान्त
"Aho Shrutgyanam"