________________
सम्मति● काव्य में, गा० १८-१९
नवस्पृष्टेऽर्थे श्रुतज्ञानं भवतत्किमिति दर्शनं न भवेदित्याशङ्कानिवृत्यर्थमाह---
जं चक्वग्गहणं ण इंति सुअनाणसम्मिया अस्था । तम्हा दंसणसहो ण होइ सयले वि सुअनाणे ॥ २८ ॥
4 जं' यस्मात् ' पच्चक्रखग्गहणं न इति ' प्रत्यक्षग्रहणं न यन्ति, न यान्ति वा । यन्तीति क्रिया कर्तृसापेक्षेति तत्कर्तृभूतानर्थानाह - " सुअनाणसम्मिया अस्था 19 इति श्रुतज्ञानेन सम्यग्मीयन्ते निश्रीयन्त इति श्रुतज्ञानसम्मिताः, अर्ध्यन्ते परिच्छिद्यन्ते ज्ञानविषय क्रियन्त इत्यर्था: । अयम्भावः श्रुतज्ञानप्रमिता अर्थाः प्रत्यक्षेण न गृहान्ते, अक्षमिन्द्रियं प्रतिगतं कार्यत्वेनाश्रितं प्रत्यक्षमिति व्युत्परयाऽक्षजस्यैव व्यावहारिकप्रत्यक्षत्वात् । पर्यवसितार्थमुत्तरार्द्धेनाह- तम्हेत्यादि ' तम्हा ' तस्मात् श्रुतज्ञानस्याक्ष जत्वाभावात् परोक्षार्थ ग्राहकत्वाच ' सयले वि सुयनाणे ' सकलेऽपि श्रुतज्ञाने 'दंसणसदो न होइ ' दर्शनशब्दो न भवति, न प्रवर्त्तते श्रुतज्ञानं चक्षुर्दर्शनाचक्षुर्दर्शनशब्दवाच्यं न भवतीति तत्तदात्मकं नेति भावः । तथा च व्यञ्जनावग्रहाऽविषयार्थ प्रत्यक्षत्वमेव दर्शनत्वमिति पर्यवसन्नम् । प्रत्यक्षपदादेव श्रुतज्ञानवदनुमित्यादेर्व्यावृत्तौ परोक्षभिन्नत्वे सतीति विशेषणं न देयम् । 'मुत्तूण लिङ्गओ जं' इत्युक्तस्याप्यत्रैव तात्पर्य दृष्टव्यम् । इत्थं चाब्राह्मणमादायेत्यादाविवाचक्षुर्दर्शनमित्यत्रापि ननर्थः पर्युदासात्मक एवाभावो ग्राह्यः, न त्वघटं भूतलममनुष्य मरण्यमित्यादाविवात्यन्तनिषेधकृत् प्रसज्यात्मकः पर्युदासथ सदृग्ग्राहीति अचक्षुर्दर्शनपदेन मानसदर्शनमेव ग्राह्यम्, न तु श्रोत्रदर्शनघ्राणदर्शनादिकम्, अप्राप्यकारित्वेन मनस एव चक्षुर्मित्वे सति तत्सदृशत्वात् ।
पुढं सुणेइ स रूवं पुण पासए अपुढं तु । गंध रसं फासं च बद्धटुं विआगरे ॥ ५ ॥
२४५
इत्यावश्यक सूत्रोक्तेः श्रोत्रघाण जिह्वा स्पर्शनेन्द्रियाणां प्राप्तार्थविषयकप्रत्यचजनकत्वेनाप्रासार्थविषयकप्रत्यक्षजनक चक्षुस्सादृश्याभावादिति । प्रज्ञापनोपयोगाख्यपदटीकायां तु-अचक्षुषा चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनं स्वस्वविषये सामान्यग्रहणमचक्षुर्दर्शनम् । ततोऽनाकारोपयोगशब्देन विशेषणसमासः इत्येवं " अचक्खुदंसण अणागारोवओगे " इत्यस्यार्थः कृतः, तथा च तत्राऽचक्षुर्दर्शनपदवाच्यं श्रोत्रम्राणरसनास्पर्शनेन्द्रियमनोदर्शनमित्युक्तं भवति ॥ २८ ॥
नन्वेवं दर्शनत्वस्य पारिभाषिकरूपत्वेऽवधिदर्शनमपि सिद्धं न स्यात्, तस्य व्यञ्जनावग्रहाविषयार्थग्राहित्वेऽपि व्यवहारतः प्रत्यक्षत्वाभावादित्याशङ्कां समाधत्ते -
जं अपुट्ठा भात्रा ओहिष्णाणस्स होंति पञ्चकखा । तम्हा ओहिणाणे दंसणसहो वि जवउत्तो ॥ २९ ॥
"Aho Shrutgyanam"