________________
૨es
सम्मति• काण्ड २, गा० २६-२५ इदमुपलक्षणं-भावनाजन्यज्ञानातिरिक्तपरोक्षज्ञानमात्रस्थ, तस्यास्पृष्टाविषयार्थस्यापि दर्शनत्वेनाव्यवहारात् । भावनाजन्यस्य लतादौ कामिन्यादिज्ञानस्य परोक्षस्यापि दर्शनत्वेन व्यवहारासदुपलक्षणासम्भवाद्भावनाजन्यज्ञानातिरिक्तेति परोक्षज्ञानस्य विशेषणम् ॥ २५ ॥ . ननु यद्यस्पृष्टाविषयार्थविषयकं ज्ञानं दर्शनमित्यभ्युपगम्यते तर्हि मनःपर्यायज्ञानमपि तथाविधत्वात्तद्रूपं स्यादिति तत्रातिप्रसङ्ग इति पूर्वार्द्धनाशङ्कयोत्तरार्द्धन तदुत्तरमाह
मणपज्जवनाणं दं-सणंति तेणेह होइ ण य जुत्तं ।
भण्णइ नाणं नोइं-दियम्मि ण घडादओ जम्हा ॥ २६ ।। ‘मणपजवनाणं दसणंति' मन:पर्यायज्ञानं दर्शन मिति तेणेह होई' तेनोक्तलक्षणेनात्र सिद्धं भवति, परकीयमनोगतानां घटादीनामालम्ब्यानां तत्रासवेनास्पृष्टेऽविषये च घटादा. बर्थे तस्य भावात् । ‘ण य जुत्तं न च युक्तम्, एतदिति शेषः। मनःपर्यायज्ञानस्य आगमे दर्शनत्वेनानमिहितत्वात् ' भण्णइ' भण्यते, तदुत्तरमिति शेषः 'नाणं नोइंदियम्मि ज्ञानं नोइन्द्रिये, अयम्भाव:-संज्ञिजीवैः काययोगेन गृहीता ये मनोवर्गणापुद्गला मनोयोगेन मनस्त्वेन परिणामितास्तन्मयं मनो नोइन्द्रियसंज्ञयाऽईच्छाने गीयत इति मनोद्रव्यार्थग्राहकत्वेन प्रवर्त्तमानं मनःपर्यायबोधरूपं ज्ञानमेव, न तु दर्शनम् , तत्र हेतुमाह-'ण घडादओ जम्हा' यस्मादस्पृष्टा घटादयो नास्य विषय इति शेषः । नित्यं तेषां लिङ्गानुमेयत्वात् । अयम्माव:-मन:पर्यायज्ञानी द्रव्यमनश्चिन्तनीयान् तान् बाह्यान् घटादीन तादृशमनःपरिणामाऽन्यथानुपपत्तिलिङ्गतोऽनुमानेन जानाति, न तु साक्षात् । उक्तश्च भाष्यसुधाम्बुधिना
"तेणावभासिए उण जाणइ बज्झेऽणुमाणेणं " ८१४ इति । एतच प्रागेव विकृतम् । मनस्त्वरूपेण परिणता मनोवर्गणास्तु परात्मगता अपि स्वाथयात्मस्पृष्टजातीया एवेति न तदंशेऽपि दर्शनत्वप्रसङ्ग इति । परकीयमनोगतार्थाकारविकरप एवास्य प्राया, तस्य चोभयरूपत्वेऽपि छामस्थिकोपयोगस्यापरिपूर्णार्थग्राहित्वान मनापर्यायज्ञाने दर्शनत्वसम्भव इत्यप्याहुः ॥ २६ ॥ किश्व
महसुचनाणणिमित्तो छउमत्थे होइ अत्थउवलंभो।
एगयरम्मि वि तेसिं ण दंसणं दंसणं कत्तो।। २७ ।। 'महसुयणाणणिमित्तो' मतिश्रुतज्ञाननिमित्तः 'छउमत्थे होइ अत्यउवलंभो' छपस्थे अक्षीणमोहादिधातिकर्मणि भवत्यर्थोपलम्मा, आगमे तथैवोक्तत्वात-एगयरम्मि वि तेसि' तयोरेकतरस्मिन्नपि तदुभयान्यतरस्मिन्नपीत्यर्थः ण सणं ' न दर्शनं, सम्भवतीति शेषः, न तावदवग्रहो दर्शनम् , तस्य ज्ञानात्मकत्वात् । ततः ' दंसणं कत्तो ? ' दर्शनं कुतः ? नास्तीत्यर्थः ॥ २७ ॥
"Aho Shrutgyanam"