________________
सम्मति० का २, ० २५
२४३
" एवं सेसिंदियदंसणम्मि नियमेज होइ " एवं शैषेन्द्रियदर्शने नियमेन भवति, एवं पूर्वोक्तनीत्या श्रोत्रेन्द्रियघ्राणेन्द्रियादिदर्शनेष्वप्यन ग्रहमात्रं दर्शनमित्यभ्युपगमे मतिज्ञानमेव तदिति नियमेन स्यात्, तच्च न युक्तमित्याह - ' ण य जुतं ' इति, पूर्वोक्तसूत्र विरोधतादवस्थ्यात् । ' अह तत्थ नाणमितं घेप्पड़' अथ तत्र ज्ञानमात्रं गृह्यते श्रोत्रादीन्द्रियेषु दर्शनमपि भवज्ज्ञानमेव गृझते, मात्रशब्दस्य दर्शनव्यवच्छेदकत्वात्, तद्व्यवच्छेद क्व चिदप्यागमे श्रोत्रदर्शनं प्राणदर्शनमित्यादिव्यवहाराभावात्, भोत्रज्ञानं प्राणज्ञानमित्यादिव्यपदेशस्तु शास्त्रे दृश्यत एवेति, तदुत्तरमाह - ' चक्खुम्मि वि तहेव ' चक्षुष्वपि तथैव, गृझतामिति शेषः, चक्षुरिन्द्रियेऽपि तजन्यावग्रहश्चक्षुर्ज्ञानमेव न तु चक्षुर्दर्शनमिति स्त्रीक्रियताम् । अथ तत्र दर्शनमिति चेत्, तर्हि श्रोत्रेन्द्रियादावपि तथैवाभ्युपगम्यताम्, युक्तेस्तौरयादिति ॥ २४ ॥
कथं तर्हि शास्त्रे चक्षुर्दशनादिप्रवाद इत्याशङ्कायां तत्कारणमाह---
नाणमपुट्ठे जो अविसए अ अत्थम्मि दंसणं होई । मुसूण लिङ्गओ जं अणागयाईयविसएसु || २५ ।।
नागमपुढे जो " चक्षुषोsप्राप्यकारित्वाद् घटादिविषयमप्राप्यैव ज्ञानं चक्षुः करोतीत्यतोऽस्पृष्टेऽर्थे चक्षुषा य उदेति प्रत्ययस्य ज्ञानमेव सत् 'दंसणं होई' दर्शनं भवति, चक्षुदर्शनमित्युच्यते, परमाणावुन रूक्षस्पर्शद्वयसमावेशवच्चाक्षुषे ज्ञानत्वदर्शनत्वधर्मद्वयसमावेश इति भाव:, इत्थं श्रीसिद्धसेनदिवाकरमते चाक्षुषज्ञानावरण चाक्षुषदर्शनावरण कर्माऽपि परमार्थत एकम्, कार्यविशेषत उपाधिभेदतो वा नैकमिति सिद्धम् । तदुक्तं स्तुतौ ग्रन्थकृतैनचक्षुर्दर्शनविज्ञानं, परमाण्वौष्ण्यरोक्ष्यवत् ।
तदावरणमध्येकं, न वा कार्यविशेषतः || निश्चय० ८ इति ॥
44
--
तच प्रागेव विवृतम् । 'अविसए य अत्थम्मि ' - इन्द्रियाणामविषये च परमाण्वादावर्थे ' नाणं जो ' इत्यस्यात्राभ्यन्वयाद् मनसा य उदेति प्रत्ययस्स ज्ञानमेव सत् ' दंसणं होह ' अचक्षुर्दर्शनमित्युच्यते । नन्वेवं तर्ह्यनुमित्यादिकमपि ज्ञानमस्पृष्टेऽविषये चार्थे मनसोपजायत एवेति तत्रापि दर्शनस्वापत्तिरित्याशङ्कायामुक्तातिप्रसङ्गनिवृत्तये उत्तरार्द्धमाह - 'मुत्तूणेत्यादि' लिङ्गतोऽनागताऽतीतविषयेषु यज्ज्ञानमुदेति तन्मुक्त्वा । अत्र जमित्यस्य नाणमित्यने नान्वयः । यत्तदोर्नित्य सम्बन्धात्तदित्यपि दृश्यम् । अयम्भावः - सातिशयोन्नतत्वादिधर्मोपेतवारिबाहलिङ्गोपलम्मेनायं काल आसमभविष्यद्दृष्टिक इत्यनुमित्यात्मकं पुनर्वसूक्ष्य लिङ्गदर्शनेन पुष्य नक्षत्रं मुहूर्त्तान्ते उद्देष्यतीत्यनुमित्यात्मकं वा कृतिकोदयान्यथानुपपत्तिलिङ्गज्ञानेन भरजिहूर्द्धावधिकपूर्वकालोदयवतीत्यनुमित्यात्मकं श्यामवाविशेषं दृष्ट्वा धूमलिङ्गस्मरथेनैतदेश आसनातीतवह्निमानित्यनुमित्यात्मकं वाऽनागतातीतविषयकं यज्ज्ञानमुदेति वन्मुक्तवेति,
"Aho Shrutgyanam"