________________
૨૪૧
सम्मति०] काण्ड २ ० २३-२४
तथाऽप्रसिद्धेः ' तेण सुविणिच्छियामो' तेन सुविनिश्विनुमः ' दंसणनाणा म अम्मचं ' दर्शनज्ञाने नान्यत्वम्, न क्रमापादितमेदम्, केवलिनि भजत इति शेषः । क्रमाभ्युपगमे हि केवलिनि ज्ञाननिमित्तकं दर्शनमभ्युपगन्तव्यं स्यात्, तत्कारणं तु प्रागेवोक्तम्, न च तबू दृष्टमनुभूतं वेत्यदृष्टकल्पना न प्रामाणिकीति भावः । ' दंसणणाणण अण्णत्तं ' इति सम्मति पाठः, तदर्थस्तु भगवताऽभयदेवसूरिणा " तेनाध्यवगच्छामः कथश्चित्तयोर्भेद इति, अपक्ष क्षयोपशमनिबन्धनः क्रमः, केवलिनि च तदभावादक्रम इत्युक्तम्" इत्येवं कृतः ।। २२ ।। यदुक्तं मतिरूपे बोधे अवग्रहमात्रं दर्शनमित्यादि तदयुक्तमतिव्याप्तरित्याह
जइ ओग्गहमेतं दंसणं ति मण्णसि विसेसिअं नाणम् । मइनाणमेव दंसण - मेवं सइ होइ निष्कण्णं ॥ २३ ॥ ७७ ॥
' जह' यदि मत्यवबोधे “ ओग्गहमेसं दंसणं ति " अवग्रहमात्रं दर्शनमिति "विसेसियं गाणं " विशेषितं ज्ञानमिति च ' मण्णसि ' मन्यसे ' एवं सह ' एवं सति " महनानमेव दंसणं होइ निष्कण्णं " मतिज्ञानमेव दर्शनं निष्पन्नं प्राप्तं भवति, भवत्वेवं सिद्धम्, को दोष इति चेत्, सोऽपि 44 श्रूयताम्, 'कइविहे णं भंते ! उवओगे पण्णते ? गोयमा ! दुविहे उनओगे प० ० सागारोवओगे य अणागारोवओगे य, सागारोवओगे णं भंते ! कतिविधे प० १ गो० ! अट्ठविहे प०, तं० आभिणिबोहियनाणसामारोवओगे, सुयनाणसागारोवओगे, ओहिनाणसागारोवओगे, मणवजवनाणसागा० केवलनाणसागा० मतिअन्नाणसा० सुयअन्नाणसा० विभंगणाणसा० । अणामारोनओगे णं भंते ! कतिविहे प० ! गो० ! चउविहे प०, तं० चक्खुदंसणअणागारोवओगे, अचक्खुदंसणअणा० ओहिदंसणअणा०, केवलदंसणअणागारोवओगे य " इति प्रज्ञापनैकोनत्रिंशत्तमोपयोगाख्यपदाद्यसूत्र विरोधप्रसङ्गस्स्यादिति । अस्मिन्सूत्रे मतिज्ञानाख्यसाकारोपयोगतोऽनाकारदर्शनोपयोगस्य भेदेन प्रतिपादनात् मतिज्ञानस्याष्टाविंशति मेदोक्तिविरोधाच्च ॥
यद्वा मतिज्ञानमेवावग्रहात्मना दर्शनम्, अपायात्मना च ज्ञानमिति यदुक्तं दृष्टान्ताभार्थमेकदेशिना तद्दूषयन्नाह -
जह उग्गहमित्तं दं-सणं ति मण्णसि विसेसिज नाणं । महमाणमेव दंसण - मेवं सह होइ निष्कणं ॥
इति ज्ञान बिन्दु पाठः । तस्यायमर्थः - यदि मतिरेवावग्रहरूपा दर्शनम्, विशेषिता सा ज्ञानमिति मन्यसे, तदा मतिज्ञानमेव दर्शनमेवं सति प्राप्तम् तद्भिनं तनेति सिद्धं भवति, न चैतद्युक्तम् " स द्विविधोऽष्टचतुर्भेदः [ तत्त्वार्थ० अ० २, ०९] इति सूत्रविरोधादित्यर्थः ॥ २३ ॥ एवं सेसिंदियदं - सणम्मि णियमेण होइ ण य जुतं । अह तत्थ नाणमित्तं घेप्पइ चक्खुम्मि वि तहेव ॥ २४ ॥
1
"Aho Shrutgyanam"
>