________________
सम्मति काण्ड• २, गt० २१-३२ चक्षुरादिजन्यज्ञानवदेव केवलं ज्ञानमध्ये पाठात् ज्ञानमपि, दर्शनमध्ये पाठाच दर्शनमपीत्येकमेव तत् ज्ञानपदेन दर्शनपदेन च व्यवहार्यमिति परिभाषामात्रमेतदिति अन्यकृत स्तात्पर्यम् ॥ २० ॥
मतिज्ञानादेः क्रम इव केवलस्याक्रमेऽपि तस्मिन् केवलोपयोगेऽखिलसामान्यविषयकत्वं नाखिलविशेषविषयकत्वमृते, तदपि तद्विना न, अल्पबत्वप्रासरित्यतः सामान्यविशेषाजहानइत्यैकोपयोगरूपतया ज्ञानत्वं दर्शनवचेत्येकदेशिमतमुपन्यस्यति
सणमुग्गहमेत्तं घडोत्ति निव्वनणा हवह नाणं ।
जह इत्थ केवलाण वि विसेसणं एत्तियं घेव ॥ २१ ॥७५ ॥ मतिरूपे पोधे 'दसणमुग्गहमेतं' दर्शनमवग्रहमा इदं तदित्येवं निर्देशानहम् । 'घडोति निक्षमणा हवह नाणं' घट इति-पुरोवर्तिपदार्थे अयं घट इति निर्वर्णना निर्वर्णयितुं निश्चयेन व्यपदेष्टुं योग्या निवर्णना, तदाकाराभिलाप इत्यर्थः । 'हवह नाणं' भवति ज्ञानं मतिज्ञानम् । ननु निश्चयात्मिका वर्णना पटोऽयमित्याकारामिलापरूपा द्रव्यश्रुतम् , कथं मतिज्ञानमिति चेत्, उच्यते, कारणे कार्योपचाराद, तथा च घटाकारामिलापजनकं यज्ज्ञानं सन्मतिज्ञानमिति भावः । उक्तदृष्टान्तस्य दार्शन्तिके योजनामाह-"जह इत्थ केवलाण वि" यथा तथेत्यनयोर्नित्यसम्बन्धात्तथेत्यध्याहाराद् यथाऽत्र मतिरूपे बोधे तथा केवलयोरपि, यथा च मतिज्ञानात्केवलस्य लक्षण्यं तथा चाह-'विसेमणं एत्तियं चेव एतावन्मात्रेण विशेषः, एकमेव केवलं सामान्यांशे दर्शनं विशेषांशे च ज्ञानमित्यर्थः ।। २१ ॥ एकदेश्येव क्रमिकमेदपक्षं दूषयति--
दसणपुव्वं नाणं नाणनिमित्तं तदसणं नास्थि।
तेण सुविणिच्छियामो दसणनाणा ण अण्णत्तं ॥ २२ ॥ ७६ ।। 'दसणएवं नाणं' दर्शनं सामान्यज्ञानं पूर्व यस्मिन् तदर्शनपूर्व ज्ञानम्, दर्शनं प्राद पवाद ज्ञानमित्येवं पूर्वापरीमाव छाअस्थिकोपयोगावस्थायां भवति, यतो न हि सामान्य मनुपलभ्य कोऽपि क्षायोपशमिकज्ञानवान् विशेषमुपलभते, तथा च किमप्येतदिति प्राक सामान्यमुपलभ्यैव तत्पश्चाद् विशेषोपलम्माद् दर्शननिमित्वकं ज्ञानं छअस्थोपयोगदशायां प्रसिद्धम् , न चायं क्रमः केवल्युपयोगावस्थायाम्, पूर्व केवलदर्शनस्याभावेऽपि केवल. झानस्य लन्धिरूपत्वेन साकारोपयोगोपयुक्त पुंसि आधक्षण एवोत्पत्तेः, अथैवमुत्पद्यतामाध. क्षणे तन , तत्पश्चाद्वितीयक्षणे तन्निमित्तं दर्शन भविष्यतीत्याशवानिवृत्त्यर्थमाह-'णाणणिमिस तु दसणं नस्थि' ज्ञानं निमित्तं यस्य तज्ज्ञाननिमित्तं तु दर्शनं नास्ति कुत्रापि,
"Aho Shrutgyanam"