________________
२४.
सम्मति० काण्ड १, गा० १९-२० द्वयात्मकैककेवलोपयोगस्तु तद्विषयस्य सामान्यविशेषभेदेन द्विविधत्वात्तदुभयांशे सर्वथाऽऽवरणकर्मक्षयसद्भावात् तदाहिज्ञानधर्मिण एकत्वेऽपि तदुभयग्रहणोन्मुखत्वेन केवलज्ञानत्वेन केवलदर्शनत्वेन च भिन्नप्रकारेण 'केवलनाणे केवलदसणे' इत्यादिसूत्रे निर्दिष्ट इत्युपपादनायाह
जेण मणोविसयगया-ण दंसणं नत्थि दव्वजायाण ।
तो मणपज्जवणाणं, णियमा णाणं तु निद्दिढं ॥ १९ ॥ ७३ ॥ "जेण मणोविसयगयाण' येनेति हेत्वर्थे तृतीयाविधानात् , यस्माद्धेतोर्मनोविषयगताना मनःपर्यापज्ञानविषयतां प्राप्तानां संज्ञिजीवैः काययोगेन गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानां ' दवजायाण ' द्रव्यजातानां बाह्यपदार्थचिन्तनानुगुणमनोद्रव्यविशेषाणां बाह्यचिन्त्यमानार्थविषयकानुमितिजनकतोपयिकविशेषरूपस्यैव सद्भावात् 'दंसणं नत्थि' दृश्यतेऽनेन तदर्शन मिति विग्रहसिद्धं दर्शनं सामान्यविषयकं नास्ति " तो मणपजवनाणं णियमा णाणं तु निद्दिट्ट" अत्र तुरवधारणाथे, ततो मनःपर्यायज्ञानं नियमाज्ज्ञानमेव निर्दिष्टम् । यद्वा दृश्यते यत्तदर्शनमिति विग्रहेण दर्शनपदग्राह्यं सामान्यं नास्ति 'तो' ततः ग्राह्यस्य सामान्यस्याभावे सति मुख्यतया तद्हणोन्मुखदर्शनाभावात् 'मणपजवणाणं णियमा णाणं तु निद्दिद' तुशब्दस्यावधारणार्थत्वाद् मनःपर्यायज्ञानं विशेषाकारत्वानियमाज्ज्ञानमेव निर्दिष्टम् , आगम इति शेषः। केवलं तु सामान्यविशेषोभयविषयकैकोपयोगरूपत्वात्केवलज्ञानकेवलदर्शनोभयात्मकमेकमेव " केवलनाणे केवलदसणे" इत्यादितत्तत्सूत्रमपि केवलज्ञानत्वकेवलदर्शनत्वधर्मभेदेन धर्मिभेदप्रतिपादनपरमेव, न तु वस्तुगत्या धर्मिभेदप्रति. पादनपरमित्यागमे तदेकमेव निर्दिष्टमिति भावः ॥ १९ ॥
सूत्रे उभयरूपत्वेन परिपठितत्वादप्युभयरूपं केवलम् , न तु क्रमिकसामय्या क्रमेणोत्पादादेककालावच्छिन्नभिन्नसामग्रीतो भिन्नभिन्नविषयकत्वेन युगपदुत्पादाक्रेत्यभिप्रायवानाह सूरिः
चक्नुअचक्खुअवहिकेवलाण समयम्मि दंसणवियप्पा । परिपढिया केवलनाणदसणा तेण ते अण्णा(तेण विय अण्णा) ॥२०॥७४॥
' चक्खुअचक्खुअवहिकेवलाण' चक्षुरचक्षुरवधिकेवलानां ' समयम्मि ' समये अहंदागमे-कइविहे णं भंते ! दंसणे पण्णत्ते ? गोयमा! चउविहे, तं जहा-चक्खुदंसणे, अचक्खुदंसणे, ओहिंदसणे, केवलदसणे" इत्यनेन 'दंसणवियप्पा' दर्शनस्य विकल्पा भेदाः 'परिपढिया' परिपठिताः-भणिताः, ' तेण' तस्माद्धेतोः “ केवलनाणदसणा ते अण्णा" केवलज्ञानदर्शने ते अन्ये, मिने, अत्र 'तेण विय अण्णा' इत्यपि पाठो ज्ञानबिन्दौ,
"Aho Shrutgyanam"