________________
२३९
सम्मति काण्ड २, गा. ८ न तु केवलकेवल्यपेक्षया, तस्याऽसर्वज्ञताप्राप्तेः। 'सोमिला दवट्ठयाए एगे अहं नागदसणयाए दुविहे अहं' इति सूत्रमपि ज्ञानत्वदर्शनत्वाभ्यां ज्ञानदर्शनभेदविवक्षयैवोक्तमिति सरेरभिप्रायः ॥ १८॥
यद्वा ननु यदेव केवलज्ञानं तदेव केवलदर्शनमित्येवं केवलज्ञानकेवलदर्शनैक्योररीकारपरे भवन्मतेऽपि केवली णं भंते ! इमं स्यणप्पभं इत्यादिसूत्रे 'जं समयं' इत्यादौ यत्समकमित्याद्यों न सर्वस्वरससिद्धः, तादृशप्रयोगे तथाविवरणाभावात् , तथा पञ्चमाङ्गेऽष्टादशशतके दशमोदेशके "सोमिला दवढयाए एगे अहं नाणदंसणट्टयाए दुविहे अहं" इत्यनेनोत्पत्रकेवलज्ञानेन भगवता स्वयमेव स्वात्मनो ज्ञानदर्शनरूपभिन्नपर्यायापेक्षया द्वित्वविशिष्टत्वोक्त्या केवलज्ञानकेवलदर्शनयोस्स्पष्टाक्षरैर्भेदप्रतिपादनादुक्तागमविरोधोऽपि, यद्धर्मविशिष्टः विषयावच्छेदेन भेदनयार्पणं तद्धर्मविशिष्टापेक्षयैव द्वित्वादेस्साकासत्वात् , अत्र यद्धर्मपदेन ज्ञानत्वदर्शनत्वयोर्ग्रहणं, तद्विशिष्टं ज्ञानं दर्शनश्च, तद्विषयो विशेषः सामान्यञ्च, तदवच्छेदेनास्मनो भेदनयस्य भेदग्राहिनयस्यार्पणं विवक्षणं, विशेषात्मना सामान्यात्मना च आत्मनो मेदव्यवस्थापनम् , तद्धर्मविशिष्टापेक्षयैव केवलज्ञानत्वविशिष्टापेक्षया केवलदर्शनत्वविशिष्टापेक्षयैव च द्वित्वादेः साकासत्वात् , आत्मनि द्वित्वादेरन्वये “ नाणदंसणट्ठयाए दुविहे अहं" इति वाक्यस्य साकासवादित्यर्थः । अन्यथाऽतिप्रसङ्गात् इत्याशङ्कय युक्तिसिद्ध. स्सूत्राओं प्राह्या, तेषां स्वसमयपरसमयादिविषय भेदेन विचित्रत्वादित्यभिप्रायवानाह सूरि:
परवत्तव्वयपक्खा, अविसुद्धा तेसु तेसु अत्थेसु ।
अस्थगईअ उ तेसिं, विअंजणं जाणओ कुणइ ॥ १८ ॥ ७२ ॥ श्रीयशोविजयोपाध्यायरियं गाथैवं विवृता ज्ञानबिन्दौ, " परवत्तव्यपक्खा " परवक्ता व्यकपक्षाः परेषां वैशेषिकादीनां यानि वक्तव्यकानि तेषां पक्षाः "अविसुद्धा तेसु तेसु अत्थेसु" अविशुद्धास्तेषु तेष्वर्थेषु सूत्रे तत्तन्नयपरिकर्मणादिहेतोः निबद्धाः, नन्वेवं तर्हि ते किं तथैव स्याद्वादतत्वज्ञेन ग्राह्या उतान्यथेत्याशङ्कायां तन्निवृत्यर्थमुत्तरार्द्धमाह-'अस्थगईअ उ' तुशब्दस्यावधारणार्थत्वात् अर्थगत्यैव सामर्थ्येनैव 'तेसिं विअंजणं' तेषामर्थानां व्यञ्जनं व्यक्तिं सर्वप्रवादमूलद्वादशाङ्गाऽविरोधेन 'जाणओ कुणइ ' ज्ञको ज्ञाता करोति । तथा च 'जं समयं पासह' इत्यादेयथार्थतार्थे केवली श्रुतावधिमनःपर्यायकेवल्यन्यतरो ग्रायः परमावधिकाधोऽवधिकछमस्थातिरिक्तविषये स्नातकादिविषये वा तादृशसूत्रप्रवृत्ती तत्र परतीर्थिकवक्तव्यताप्रतिबद्धत्वं वाच्यम् , एवमन्यत्रापीति दिक् ॥ १८ ॥
अथ मनापर्यायज्ञानं पटुक्षयोपशमप्रभवत्वाद् विशेष मेव गृहदुत्पद्यते, न सामान्यमिति तद्विषयस्य विशेषकरूपत्वादेव तज्ज्ञानत्वेनैव निर्दिष्टं सूत्रे, अक्रमज्ञानोपयोगदर्शनोपयोग
"Aho Shrutgyanam"