________________
सम्मति का २, ०१७
वरणमनन्तमक्षयं केवलं यस्मादिति । यस्मात्केवलं केवलज्ञानं सकलविषयकत्वात्सकलं परिपूर्णम्, पदार्थस्वव्यापकविषयताकमिति यावत् । तत्कुत इत्याशङ्कानिवृत्त्यर्थं तत्र हेतुमाह - अनावरणम्, निश्शेषावरण मलरहितम्, अनावरणत्वात्तत्सकलम्, न च प्रदीपोऽनावरणोऽपि न सकलार्थान् प्रकाशयतीति व्यभिचारस्तनिवृत्त्यर्थं विशेषणान्तरमाह - अनंतंयदन्तरहितमपर्यवसितसत्ताकं तत् सकलार्थविषयकं न च प्रदीपोऽन्तरहित इति न तत्र व्यभिचारः । यद्वाऽनन्तार्थग्रहणप्रवृत्तम्, प्रदीपस्तु परिमितार्थग्रहणप्रवृत्त इति न तेन व्यभिचारः, तदपि कुतः ?, यतोऽक्षयम्, यथा भास्करस्य जगत्प्रकाशस्वभावोऽतिसमुन्नतघनाघनपटलाडम्बरेणावृतः प्रतिकूलवाय्वादिना सर्वथा तद्विगमे सति सर्व कलां येरभिव्यक्तोऽपि पुनरतिप्रबलवायुनाऽऽनीयमानमेघपटलाडम्बरेणाच्छाद्यते तद्वदात्मकेवलप्रकाशोऽतिनिविडतमज्ञानावरणकर्मावरणेनावृतश्शुक्लध्यानादिना निश्शेषतस्तद्विसे सति सर्वथाऽभिव्यक्तो न पुनरात्रियते, तत्प्रतिरोधक नव्य कर्मबन्धाभावाद, विरोधिगुणान्तराभावेन नापि पश्चात्तत्क्षयः, ततश्च तस्यानन्तत्वमिति भावः तस्मादक्रमोपयोगद्वयात्मक एक एव केवलोपयोग इत्यभ्युपगन्तव्यम् । तत्रैकत्वं व्यक्त्या, द्वयात्मकत्वञ्च नृसिंहत्ववदशिकजात्यन्तररूपत्वमित्येके, माषे स्निग्धोष्णत्ववद्व्याप्यवृत्तिजातिद्वयरूपत्वमित्यपरे, महनीयमान्यमतिवैभवन्यायाचार्य श्रीयशोविजयोपाध्यायास्तु केवलत्वमावरणक्षयात्, ज्ञानत्वं जातिविशेषः, दर्शनत्वश्च विषयताविशेषो दोषक्षयजन्यतावच्छेदक इत्याहुः || १७ || केवलज्ञान केवलदर्शनैक्यमभ्युपगच्छन् ग्रन्थकारस्स्वपक्षे आगमविरोधं परिहरन्नाह - परवत्तव्वयपक्खा, अविसिट्ठा तेसु तेसु सुत्तेसु ।
अत्थई उ तेसिं, वियंजणं जाणओ कुणइ ॥ १८ ॥
२३८
66
परवतवयपक्खा अविसिट्ठा " परवक्तव्यकपक्षाऽविशिष्टाः, वक्तुं योग्यानि वक्तव्यानि तान्येव वक्तव्यकानि परैर्वैशेषिकादिभिर्वक्तव्यकानि पश्वक्तव्यकानि तेषां पक्षा अभ्युपगमाः “ युगपज्ज्ञानानुत्पत्तिः " "नागृहीतविशेषणा विशिष्टबुद्धिः" इत्यादिरूपास्तैः ' अविसिद्धा' अविशिष्टा अभिन्ना एकार्थप्रतिपादका इति यावत् “तेसु तेसु सुत्तेसु " भगवन्मुखाम्भोज निर्गतेषु तेषु तेषु सूत्रेषु “ जं समयं पासह नो वं समयं जाणइ " इत्यादिषु अभ्युपगमाः प्रतिभासन्ते, नन्वेवं तर्हि तेषां सूत्राणां किं तथैव व्याख्या कर्त्तव्या किं वाऽन्यथेत्याशङ्कानिवृत्र्त्यर्थमुत्तरार्द्धमाह – ' अत्थगईअ उ तु शब्दस्यावधारणार्थत्वादर्थगत्यैव सामर्थ्येनैव ' तेसिं वियंजणं जाणओ कुणइ' तेषां व्यञ्जनं ज्ञकः करोति तेषां सूत्राणां व्यञ्जनं द्वादशाङ्ग्यात्मक प्रवचनाऽविरोधेनार्थव्यक्तीकरणम्, व्याख्यानमिति यावत्, जानातीति ज्ञः स एव ज्ञकः, अर्हदागमयथार्थज्ञाता करोति " जं समयं पास नो तं समयं जाणइ" इत्येतत्सूत्रं श्रुतावधिमनः पर्याय केवलिसंज्ञकत्रिविधकेवल्यन्यतराऽपेक्षयैव चरितार्थम्,
,
46
"Aho Shrutgyanam"