________________
सम्मति० काण्ड २, गा.१७
२३७
धिज्ञानविषयस्यानन्ततमभागरूपाणि अवधिज्ञानिनस्सकाशाद्वहुतरपर्यायाणि मनोद्रव्याग्येव जानीते तर्हि किं स संज्ञिजीवैर्मनसा चिन्तितं बाह्यवस्तु नैव जानातीति चेत् , क आह ? न जानातीति, तर्हि किं वेति ? अवगच्छत्येव यद्यवधिज्ञानं स्यात्तदा तेन संज्ञिजीवैश्चिन्ति. तमपि, नो चेत्तदेगिताकारं दृष्ट्वा ततोऽयमाचार्यभगवान् ईशाभिप्रायवान् ईदृशेगिताकाराऽन्यथानुपपत्तेरित्येवमनुमानेनान्तेवासी विनयमूर्तिः पूज्याचार्याभिप्रायं जानाति ।
" जाणइ य पिहु जणो वि हु, फुडमागारेहिं माणसं भावं।
एमेव य तस्सुवमा, मणदव्वपगासिए अत्थे ॥ ३६ ॥” इति बृहत्कल्पभाष्यवचनाद् , यद्वा मलीमसं प्रशान्तं वा मुखाकारं चेष्टाविशेषवत्त्वं वा दृष्ट्वा ततोऽयं पुरुषो दुर्मनाः सुमना वा दृश्यमानेशमुखाकारस्येशचेष्टावचस्य वाऽन्यथानुपपत्ते. रित्यनुमानेनान्यप्राकृतपुरुषोऽन्यपुरुषस्य स्फुटं मानसं भावं वेत्ति यथा तथा मनोद्रव्यपरिणाम स्तम्माद्यविनामाविनं दृष्ट्वा ततो मनोद्रव्याणामीशपरिणामान्यथानुपपत्तेरनेन संज्ञिजीवेनेदं स्तम्भादि वस्तु मूर्त्तमात्माद्यमूर्त वा चिन्तितमस्तीत्यनुमानेन मूर्तीमूर्ते अपि द्रव्ये मनःपर्यायज्ञानी वेत्ति, न तु साक्षादध्यक्षता, यतश्चिन्तको मूतं परमाण्वादिकममूर्तमास्मादिकं ज्ञानादिकं च वस्तु चिन्तयेत् , न च मन:पर्यायज्ञानी मृतं परमाण्वादिकममर्त धर्मास्तिकायादिद्रव्यं चिन्तितज्ञानादिगुणादिकं च वस्तुमात्रं साक्षाद् जानाति, ततो ज्ञायते मनोद्रव्याणां तथाऽवस्थाकारपरिणामान्यथानुपपत्तिलिङ्गकानुमानादेव चिन्तनीयं वस्त्ववगच्छतीति, उक्तश्च विशेषावश्यकभाष्ये-" तेणावभासिए उण जाणइ बज्झेऽणुमाणेणं" इति । भावमन:पर्यायग्राहकत्वे सति साक्षात्तद्व्यतिरिक्तद्रव्यपर्यायाऽग्राहकं यज्ज्ञानं तन्मन:पर्यायज्ञानमिति पर्यवसिततल्लक्षणम्, एतत्सर्वविवेचनमस्मत्प्रणीततत्वार्थविवरणटीकातोऽवसेयमिति । तथा च सिद्धमेतन्मतिश्रुतावधिमनःपर्यायज्ञानानि तत्तत्क्षयोपशमकारणभेदप्रयुक्तपरस्परविलक्षणविषयकत्वेनासर्वार्थानीति ॥ १६ ॥
अत एव तेषां चतुर्णां विभागो युज्यते, न तु केवलिनि केवलज्ञानकेवलदर्शनयो. विभाग उपपद्यते, सर्वार्थत्वात्तयोरिति सहेतुकदार्शन्तिकोपपादनायाह
तम्हा चउविभागो जुञ्जह, ण उ नाणदसण जिणाणं ।
सयलमणावरणमणंत-मक्खयं केवलं जम्हा ॥ १७ ॥ ७१ ।।
तम्हा चउविभागो जुजह तस्मादुक्तहेतोः चतुर्विभागः चतुर्णां मतिज्ञानादीनां विभागो युज्यते तत्तत्क्षयोपशमरूपकारणभेदात् , ' न उ नाणदंसण जिणाणं' न तु ज्ञानदर्शनयोः केवलज्ञानकेवलदर्शनयोर्जिनानां क्षीणरागद्वेषादीनां केवलिनाम् , 'नाणदंसणत्ति' अविभक्तिको निर्देशः सूत्रत्वात् । तत्र हेतूपदर्शनायोत्तरार्द्धमाह-सयलेत्यादि-सकलमना
"Aho Shrutgyanam"