________________
२३६
सम्मति० का २, गा० १६ श्रुतज्ञानमपि श्रुतानुसारेण जायते, तत्र श्रुतं सङ्केतविषयपरोपदेशः श्रुतग्रन्थश्चेति शक्तिस्मरणद्वारा तद्वाच्यार्थगोचरेण तेन श्रुतज्ञानेन नैकैकद्रव्यगताः सर्वे स्वस्वाऽसाधारणधर्मरूपेण पर्याया अभिलाप्यानभिलाप्यात्मका विषयीक्रियन्त इति श्रुतज्ञानी सर्वद्रव्याणि जाननपि न तद्गतान् तान् पर्यायान् सर्वान् जानीते, तेषां सर्वेषां श्रुतज्ञानावरणीयकर्मक्षयोपशमलक्षणयोग्यत्वस्याऽभावादेवेति । अवधिमनापर्याययोविभिन्न विषयकत्वमभिधातु. मुत्तरार्द्धमाह-"ओहिमणपञ्जवाण उ अण्णोण्णविलक्खणा विसओ" अवधिमनःपर्याययोः पुनरन्योन्यविलक्षणा विषयः, भावा इत्यस्यानाऽप्यनुकर्षणात् अन्योन्यविलक्षणा भावा विषय इत्यर्थः । अवधिज्ञानस्य रूपिद्रव्यमानं विषयः 'रूपिष्ववधेः।१।२८। इति तत्त्वार्थस्त्रस्य नियमपरतया तेनावधिज्ञाने रूपिद्रव्यत्वसमनियतविषयताकत्वस्यैव प्रतिपादनात् । यतः "परमोहिम्नाणविओ, केवलमन्तोमुत्तमित्तेण ६८९ । इति विशेषावश्यकभाष्योक्तेर्यदुत्प. क्यनन्तरमन्तर्मुहूर्त्तकालमात्रेण नियमेन केवलज्ञानमुत्पद्यते इत्येवं लक्षणेन सुविशुद्धेनापि 'स्वगयं लहइ सवं" इति भाष्योक्तेस्सर्वलोकान्तर्गतपरमाण्वादिभेदभिन्ननिखिलपुद्गलद्रव्यविषयकेण केवलज्ञानभास्करोदये प्रथमप्रभास्फोटकल्पेन परमात्मविशुद्धिसमुत्पन्नेन परमावधिज्ञानेन रूपीण्येव द्रव्याण्यवधिज्ञानी जानीते, तान्यपि न सर्वपर्यायविशिष्टानि, किन्तु 'पेच्छा चउग्गुणाई जहण्णओ मुत्तिमंताई" ८०७ इति भाष्यवचनाद् जघन्यत एकैकद्रव्यापेक्षया चतुःपर्यायविशिष्टानि " पइदवं संखाईयपजयाई च सवाई" ८०८ इति भाष्योक्तरुत्कृष्ट. तस्त्वेकैकद्रव्यमाश्रित्यासङ्खयेयपर्यायविशिष्टानि अवधिज्ञानी जानीते । ननु यद्यवधिज्ञानी उत्कृष्टतोऽपि कृत्स्नलोकवर्तिनिखिलानि रूपीण्येव द्रव्याणि जानी तर्हि लोकप्रमाणान्यलोकेऽसङ्ख्यखण्डानि परमावधिः पश्यति, उक्तश्च-परमोहि असंखेजा लोकमिता" इत्यादि। ततः क्षेत्रस्यारूपित्वात्तत्कथं सङ्गच्छते इति चेत् , उच्यते, यदि तत्र तानि रूपिपुद्गलद्रव्याणि द्रष्टव्यानि स्युस्तदा पश्येदेवावधिज्ञानी, न च तानि तत्र सन्तीत्यतस्सामर्थ्यमात्रवर्णनमेतदिति नोक्तविरोधः। उक्तश्च भाष्यकृता___ " सामत्यमेत्तमेयं, जइ ददुव्वं हवेज पेच्छेना।
न य तं तत्थथि जओ, सो रूविनिबंधणो भणिओ॥६०५॥" इति मनःपर्यायज्ञानस्य च ' मुणइ मणोदवाई नरलोए सो मणिजमाणाई' ८१३ इत्युक्तेर्मानुषक्षेत्रे संक्षिपञ्चेन्द्रियजीवेन काययोगेन गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानि मान. सिकविचारानुगुणानि अनन्तपरमाणुनिष्पन्नानि मनोद्रव्याणि विषयः । स च विषयोऽवधिज्ञानविषयसमसङ्कथको न, किन्तु तदनन्ततमभागरूपः " तदनन्ततमभागे मनःपर्यायस्य" १-२९ । इति तत्त्वाथेसूत्रेण यानि रूपीणि द्रव्याण्यवधिज्ञानी जानीते ततोऽनन्ततमभागे मनःपर्यायज्ञानस्य विषयनिवन्धो भवतीति प्रतिपादनात् । ननु यदि मन:पर्यायज्ञानी अव.
"Aho Shrutgyanam"