________________
सम्मति० काण्ड १, गा. १६
२३५ न हि पूर्वकालावच्छेदेनागृहीतशब्दसङ्केतादेव्युत्पत्रस्य मतिज्ञानं जायत इति श्रुतज्ञानपरिकर्मितमतेमेतिज्ञानोपयुक्तस्य तत्कालावच्छेदेन श्रुतपरिपाटीमन्तरेणापि पवम्यासाजाय. मानस्याऽसर्वपर्यायधर्मास्तिकायादिसर्वद्रव्यविषयकमानसज्ञानस्यैत्र मतिज्ञानत्वात् । यदुक्तं विशेषावश्यकभाष्ये
"आएसो त्ति व सुत्तं, सुउवलद्धेसु तस्स महनाणं ।
पसरह तम्भावणया, विणावि सुत्ताणुसारेण ।। ४०५॥” इति ॥ ननु श्रुतपरिकर्मितमतेश्रुतोपलब्धेष्वर्थेषु यज्ज्ञानं तच्छ्रुतमेव, कथं मतिज्ञानमिति चेत्, उच्यते, अत एवोक्तगाथायां 'तम्भावणया विणा वि' इत्युक्तेस्तन्मतिज्ञानम् , तद्भावनया विनापि-श्रुतोपयोगमन्तरेण तद्वासनामावत एवं यद् द्रव्य क्षेत्रकालभावेषु प्रवर्तते तत्सूत्रा. देशेन मतिज्ञानमिति भावः । तथा च मतिश्रुतयोरसर्वपर्यायसर्वद्रव्यविषयकतया तुल्यार्थस्वादेव मतिरपि श्रुतबदसर्वार्थग्रहणात्मकतया भावितैवेति भावनया प्रस्तुतगाथायां श्रुत. ज्ञानान्मतिज्ञानं पृथक नोक्तमिति । अत्रेदं चिन्त्यम् -ननु यदि धर्मास्तिकायादिद्रव्याण्यनन्तपर्यायावलीढान्येव वस्तुत्वं विभ्रति तदा मतिश्रुतज्ञानाभ्यामनन्तपर्यायविशिष्टतयैव तद्ग्रहणेन भवितव्यमिति चेत्, मैवम् , तदितरमकलकारणसद्भावे सति मतिश्रुतज्ञानग्रहणयोग्य. त्वसवे मतिश्रुतज्ञान सच्चम् , तदभावे तदभाव इत्यन्वयव्यतिरेकाम्यां तद्ग्रहणयोग्यत्वस्य कारणत्वसिद्धेमैतिश्रुतज्ञानयोस्सावरणत्वेनानन्तपर्यायविशिष्टतया तद्ब्रहणयोग्यत्वस्यैवाभावाताभ्यामनन्तपर्यायविशिष्टतया तद्ब्रहणभवनाऽभावात् । तथाहि-मतिज्ञानं तत्तदिन्द्रियानि. न्द्रिययोग्यार्थग्राहकम्, तत्र च योग्यता मतिज्ञानावरणकर्मक्षयोपशमलक्षणेति सा यस्य यस्य विषयस्य तस्य तस्य मतिज्ञानेन ग्रहणम् , नान्यस्य, तेन धर्मिग्रहणे न सर्वे तद्गताः पर्याया गृह्यन्ते, किन्तु कतिपया योग्या एव, न हि चक्षुषा योग्यदेशस्थघटधर्मिग्रहणे तद्गता अनन्तास्स्वपरपर्याया गृह्यन्ते, किन्तु रूपसङ्ख्यासंयोगादिनियतसङ्खयकाश्चक्षुर्विषयभाषमापना एवेति । नन्वेवं तर्हि धर्माधर्माकाशास्तिकायादीनां द्रव्याणामतीन्द्रियस्वान्नव मतिज्ञानेन ग्रहणं स्यादित्यसर्वतत्पर्यायग्रहणे का वाति मतेरसर्वपर्यायसर्व द्रव्यविषयनिबन्ध इत्ययुक्तमुक्तमिति चेत्, न, व्यवहारकालात्पूर्व श्रुतेन संस्काराधानरूप उपकारः कृतो यस्य पुंसस्तस्य मतिज्ञानोपयोगकाले पूर्वप्रवृत्तसंस्काराधायकश्रुतानपेक्षस्याऽसर्वपर्यायधर्मास्तिकायाद्यतीन्द्रियविषयकस्यापि मानसज्ञानरूपमतिज्ञानस्य प्रवृत्तेः, व्युत्पन्नपुंसः कतिपयपर्यायविशिष्टपरमाण्वायतीन्द्रियविषयकमानसज्ञानस्येव, अनन्तपर्यायग्रहणे तु मनो नैव व्याप्रियते, तथाशक्त्यभावात, केवलज्ञानगम्यत्वातेषाम् , यदभ्यधायि भाष्यकारेण
" आएसो त्ति पगारो, ओहादेसेण सव्वदन्वाइं । धम्मत्थिआइयाई, जाणइ न उ सव्वभेएण ॥ ४०३ ॥" इति ।
"Aho Shrutgyanam"