________________
सम्मति० काण्ड २, गा० १६ स्सद्भावात् । न च सिद्धान्ते विना निक्षेपविशेषमप्रसिद्धार्थे पदवृत्तिरवधार्यते, षट्पष्टिसागरोपमस्थितिकत्वादिकमपि मतिज्ञानादेर्लब्ध्यपेक्षयैवेति दुर्वचम् , एकस्या एव क्षयो. पशमरूपलब्धेस्तावकालमनवस्थानात् , द्रव्यक्षेत्राद्यपेक्षया विचित्रापरापरक्षयोपशमसन्तानस्यैव प्रवृत्युपगमात् । किन्तु एकजीवावच्छेदेन अज्ञानातिरिक्तविरोधसामग्र्यसमनहितषट्षष्टिसागरोपमक्षणत्वव्याप्यस्वसजातीयोत्पत्तिकत्वे सति तदधिकक्षणानुत्पत्तिकस्वसजातीयत्वरूपं तत्पारिभाषिकमेव वक्तव्यम् , अत्र व्यक्तज्ञानोत्पत्यव्यवहितपूर्वक्षणातिरिक्त क्षणे नियमतोऽज्ञानात्मकविरोधिसामग्रीसमवधानस्य भावाद्विरोधिसामग्र्यसमवहितषट्पष्टिसागरोपमक्षणत्वमप्रसिद्धमतोऽज्ञानातिरिक्तेति विशेषणम् । एवमन्यदप्यूह्यम् ॥ १५ ॥
क्रमेण युगपद्वा परस्परनिरपेक्षस्वविषयपर्यवसितज्ञानदर्शनोपयोगी केवलिन्यसर्वार्थग्रहणात्मकत्वान्मत्यादिज्ञानचतुष्टयवन्न स्त इति दृष्टान्तभावनापूर्वमाह-- पण्णवणिज्जा भावा, समत्तसुअनाणदंसणाविसओ।
ओहि मणपजवाण य(उ), अण्णोण्णविलक्खणाविसओ ॥१६॥७०॥
अभिलाषयोग्यपर्यायैरेव स्थूलैः कालान्तरस्थायिभिर्व्यञ्जनपर्यायापराभिधानश्वेतनाचेतनस्य सकलवस्तुनोऽभिलाप्यत्वप्रतीतेरभिलाप्यस्वभावत्वमनभिलापयोग्यपर्यायैरेव सूक्ष्मैः प्रतिक्षणभाविभिरर्थपर्यायाऽपरनामधेयैस्सर्वस्यानभिलाप्यत्वप्रतीतेरनभिलाष्यस्वभावत्वमिति स्याद्वादरत्नाकरपश्चमपरिच्छेदाष्टमसूत्रटीकोत्ते, इह जगति भावा अभिलापयोग्यव्यञ्जनपर्यायानभिलापयोग्यार्थपर्यायापेक्षया प्रज्ञापनीयाप्रज्ञापनीय भेदेन द्विविधाः, तत्राप्रज्ञापनीयाः प्रतिक्षणभाविसूक्ष्माऽर्थपर्यायत्वेनावचनगोचरताऽऽपन्नाः केवलिभगवज्ज्ञानगोचरा अपि न श्रुतज्ञानगोचराः, तदनन्तभागवर्त्तिनो प्रज्ञापनीयानामेव तद्गोच. रत्वादित्याह-' पण्णवणिजा भावा' इति-प्रज्ञापनीयाः प्रकर्षेण संशयविपर्ययादिराहित्येन ज्ञापयितुं योग्या:, प्रज्ञाप्यन्ते प्ररूप्यन्ते इति प्रज्ञापनीया वा कालान्तरभाविस्थूलव्यञ्जनपर्यायपर्यवसायिवचनपोयत्वेन श्रुतज्ञानगोचरा इति यावत् , भावा ऊध्वाधस्तिर्यग्लोकान्तर्निविष्ट-भू-भवन-विमान-ग्रह-नक्षत्र-तारका-केन्द्रादयः,ते किंस्वरूपा! इत्याह-'सम्मत्तसुअनाणदंसणाविसओ' समस्तश्रुतज्ञानदर्शनाविषयः, समस्त श्रुतज्ञानस्य द्वादशाङ्गवाक्यात्मकस्य दर्शनाया दर्शनप्रयोजिकायास्तद्वाक्योपजाताया बुद्धेविषय आलम्बनम् । नन्वस्यां गाथायां श्रुतज्ञानवन्मतिज्ञानमपि कथं न तथा भावितमिति चेत् , अत्र समाधीयते, “मतिश्रुतयोर्निवन्धः सर्वद्रव्येष्वसर्वपर्यायेषु" ॥१॥ २७ ॥ इति तत्वार्थसूत्रेण मतिश्रुतज्ञानयोरसर्वपर्यायविशिष्टसर्वद्रव्येषु विषयनियमः प्रदर्शित इति तयोरसर्व पर्यायसर्वद्रव्यविषयकत्वेन तुल्यार्थत्वप्रतिपादनान्मतिज्ञानमपि श्रुतज्ञानविषयविषयकमेव,
"Aho Shrutgyanam"