________________
सम्मति० काण्ड २, गा० १५
२३३
6
•
— तहेव एयं पि ' तथैवेतदपि, केवलज्ञान केवलदर्शनयोरन्यतरोपयोगप्रवृत्तावपि केवली अपर्यवसित केवलज्ञानी अपर्यवसित केवलदर्शनी ज्ञातदृष्टभाषी चेत्यादिकमपि सार्वदिक केवलज्ञानदर्शनशक्तिसमन्वयादुपपद्यत एवेत्यर्थः । भण्णइ ' भण्यते-अत्रोत्तरं दीयते एकत्ववादिना, 'ण पंच णाणी जहेव अरहा तहेयंपि' न पञ्चज्ञानी यथैवान् तथैतदपि । "नट्ठम्मि य छाउमत्थिए नाणे केवलनाणं उववज्झद्द" आव० नि० गाथा ५३९ इति वचनात्केवलज्ञानोत्पत्तिर्मतिज्ञानादिचतुष्टयस्य क्षायोपशमिकस्य घातिकर्मक्षये सति क्षयोपशमरूपकारणस्याभावादभावे सत्येव भवति, अत एवैककालावच्छिन्नमत्यादिज्ञानचतुष्टया समानाधिकरणं केवलज्ञानमिति गीयते सैद्धान्तिकैः । तत्क्षयोपशमनाशकतायाश्र ' पण खलु पडिवाए ' इत्यादिवृहत्कल्प भाष्यगाथोक्तप्रकारेण पूर्वमेव प्रतिपादितत्वात्केव लिनि क्षयोपशमाभावेन क्षायोपशमिकानां मत्यादिज्ञानानामभावाद् यथैवार्हन पञ्चज्ञानी तथैतदपि क्रमवादिना यदुच्यते - भेदतो ज्ञानवान् दर्शनवाँचेति तदपि न भवतीत्यर्थः । मत्याद्यावरणक्षयेऽपि एकदेशग्राहिणो मतिज्ञानादेरिव ज्ञानदर्शनावरणक्षयेऽप्येकदेशग्राहिणो ज्ञानस्य दर्शनस्य च केवलिनि भेदेनानुपपत्तेरिति भावः । इयांस्तु विशेषः - यदमेदेनापि केवलज्ञाने केवलदर्शनसंज्ञा सिद्धान्तसम्मता, न तु मतिज्ञानादिसंज्ञेति, तत्र हेतू अन्वर्थोपपत्त्यनुपपत्ती एव द्रष्टव्ये । तथाहि केवलं सम्पूर्ण दृश्यतेऽनेनेति केवलदर्शनमित्यन्वर्थोपपत्तिसङ्घटनात्केवलदर्शनसंज्ञा तत्र युक्ता, मतिज्ञानादिसंज्ञा तु न युक्ता, मननं मतिः मतिज्ञानावरण कर्मक्षयोपशम सहकृत चक्षुरादीन्द्रियसापेक्षं यज्ज्ञानं तन्मतिज्ञानम्, श्रोत्रेन्द्रियद्वारिका श्रुतानुसारिण्यभिलापप्लावितार्थोपलब्धिश्रुतज्ञानम्, रूपिद्रव्यमात्रविषयकं यज्ज्ञानं तदवधिज्ञानम्, मनोद्रव्यपर्याय मात्र साक्षात्कारि यज्ज्ञानं तन्मनःपर्यायज्ञानमित्यन्त्रर्थोपपश्यभावात्तत्र, क्षायोपशमिकभावातीतत्वात् केवलज्ञानस्येति अयश्च प्रौढिवादः । वस्तुतः क्रमवादे " केवली यदा जानाति तदा पश्यति" इत्यादेरनुपपत्तिरेव यतस्तत्र शू धातोर्दर्शनं आख्यातस्य चाश्रयत्वं वर्त्तमानत्वञ्चार्थः तथा च पश्यतीत्यस्य वर्तमानकालीनदर्शनाश्रय इत्यर्थः, न च स सङ्घटते, तदानीं दर्शनाभावात् । न च क्रमवादे केवलिनि यत्समयावच्छेदेन ज्ञानोत्पत्तिस्तत्समयावच्छेदेन दर्शनोत्पत्यभावेन दर्शनाश्रयस्वाऽभावेऽप्यत्र लब्धेरेवाख्यातार्थत्वेन दर्शनलब्धिसद्भावात्तदपेक्षयोक्तप्रयोगोपपत्तिरिति वाच्यम्, देवदत्तो घटं यदा नैव पश्यति तदानीमपि स घटं पश्यति' इति प्रयोगप्रसङ्गात्, घटदर्शनलब्धेस्तदानीमपि विद्यमानत्वात् । ननु भवन्मतेऽपि सर्वादर्शन वेलायामपि चक्षुष्मान् सर्वं पश्यति, न त्वन्ध इत्यादिप्रयोगस्य कथमुपपत्तिरिति चेत्, उच्यते, अत्रानन्यगत्या लब्धेर्योग्यताया वाऽऽख्यातार्थत्वाऽभ्युपगमेऽपि न तु सर्वत्राऽप्ययं न्यायोsनुसरणीयः, सुतश्चक्षुष्मान् सर्वं पश्यतीत्यादेरपि प्रसङ्गात् । निद्राकालेऽपि लब्धे
6
३०
"Aho Shrutgyanam"