________________
२३२
· सम्मति० काण्ड २, गा० १५ तेषां जीवस्वाभाव्यादेव क्रमेणैव प्रवृत्तिः, अत एव सम्यक्त्वोत्पत्तिकाले समकालं भतिश्रुते लब्धिमात्रमङ्गीकृत्य प्रोच्येते, न तूपयोगम् , उक्तश्च-" इह लद्धिमइसुयाई समकालाई न तूवओगो सिं" इति । मतिश्रुतावधिमनःपर्यायज्ञानानि न युगपद्भवन्ति, भिन्नकालावच्छिन्नभिन्नसामग्र्युत्पद्यमानत्वात् , चाक्षुषरासनादिज्ञानवत् , प्रत्यक्षानुमानादिवद्वेत्यनुमानेनापि योगपद्यनिषेधेनार्थतः क्रमभावित्वसिद्धिश्चेत्यतः क्रमोपयोगप्रवृत्तोऽपि " चउ. नाणी जुजइ णियमा" चतुर्ज्ञानी युज्यते नियमात , अपर्यवसितमतिज्ञानादिचतुर्ज्ञानो ज्ञातदृष्टभाषी ज्ञाता द्रष्टा च नियमायुज्यते, तल्लन्धिभावात् । उक्तश्च चतु नित्वमेक. स्यापि जीवस्य पञ्चमाङ्गेऽष्टमशतकद्वितीयोद्देशकसूत्रे-"जे चउनाणी ते आभिणियोहिया नाणी सुयनाणी ओहिनाणी मणपजवनाणी । न च मत्यादिज्ञानानां लब्धिरूपत्वे सिद्धे सत्येव तेषामपर्यवसितत्वादिकं स्यादिति वाच्यम् , " नाणलद्वीणं भंते ! कविहा पन्नत्ता ? गोयमा ! पंचविहा पन्नत्ता, तं जहा-आभिणियोहियनाणलद्धी जाव केवलनाणलद्धी" इति पश्चमाङ्गाष्टमशतकद्वितीयोद्देशकसूत्रेण तेषां लब्धिरूपत्वस्य आभिणियोहियनाण. लद्धीणं भंते ! जीवा कि नाणी अन्नाणी ? गोयमा ! नाणी नो अन्नाणी ? अत्थेगतिया दुन्नाणी चत्तारि नाणाई भयणाए" इत्यादिसूत्रेणाभिनिबोधिकज्ञानलब्धिकानां केषाश्चि. जीवानां मतिश्रुतज्ञानयोः केषाश्चिच मतिश्रुतावधिज्ञानानां मतिश्रुतमनःपर्यवज्ञानानां वा केषाश्चिच्च मतिश्रुतावधिमनःपर्यायज्ञानानां लब्ध्यपेक्षया योगपद्यस्य च, मत्यादिज्ञानत्रयस्य च "उक्कोसेणं छावर्द्धि सागरोवमाई साइरेगाई" मन:पर्यायज्ञानस्य च " उक्कोसेणं देसूणा पुवकोडी" इति सिद्धान्तोक्तस्थितिकस्यैतावत्कालपर्यन्तमपर्यवसित्वस्य च प्रति. पादनात् । न चैतावत्कालान्तमुपयोगाऽपेक्षयोक्तस्थितिकत्वं तेषां सम्भवति, उत्कृष्टतोऽपि छाद्यस्थिकज्ञानोपयोगस्यान्तर्मुहूर्तिकत्वात् । एतेनानुपयोगात्मकतया युगपदवस्थितमत्ता. कानां मत्यादिचतुर्ज्ञानानां बोधस्वभावता चेत्, तदा स्वस्वयोग्यार्थविषयकज्ञानोपयोगेनापि सदा नियमेन भवितव्यमेव, अन्यथा जडत्वापत्या बोधस्वभावत्वाऽनुपपत्तिस्यादित्यारेकाऽपि निरस्ता, उक्तहेतोरुक्तनियमे मानाभावात् , कथमन्यथा " इहभविए भंते ! नाणे परभविए नाणे तदुभयभविए नाणे ? गोयमा ! इहभविए वि नाणे परभविए वि नाणे तदु. भयभविए वि नाणे" इति भगवतीप्रथमशतकप्रथमोद्देशकसूत्रोक्तमेतद्भवोत्पन्नस्य मतिश्रुतज्ञानद्वयस्य मतिश्रुतावधिज्ञानत्रयस्य चेहमवे परभवे तदुभयभवे परतरभवे चानुगमनं सङ्ग. च्छते, एतद्भवे देहेन्द्रियादेस्सद्भावेऽप्यन्तरालगतौ तदभावेन तद्रूपकारणाभावेन स्वस्वयोग्यार्थविषयकज्ञानोपयोगस्यैवाभावात्तदपेक्षया मतिश्रुतज्ञानाद्यनुगमनाभावात् । तस्मादत्र स्वस्थयोग्यार्थविषयकज्ञानानुकूलशक्त्यपरनामलमध्यपेक्षयैव मतिज्ञानादिचतुष्टयस्यैककालावच्छिन्नस्वभिन्नज्ञानसामानाधिकरण्यलक्षणं योगपद्यमवसे यम् । उक्ताशयेनैव भगवतोमास्वातिना"एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्व्यः"।१ । ३१ । इति सूत्रं प्रणीतम्।"
"Aho Shrutgyanam"