________________
सम्मति काण्ड० २, गा० १४-१५
૨૧
सामान्यांश विशेषांशद्वयशालिनिखिल तत्तद्वस्तुगतैकैकांशग्राहिणः केवलदर्शनस्य केवलज्ञानस्य चाsपरिपूर्ण तच्च ग्राहकत्वादिति ॥ १३ ॥
केवलज्ञानकेवलदर्शनयोरन्यूनानधिकसङ्ख्यक विषयकत्वेनाऽप्येकत्वमित्याह—
केवलनाणमणतं, जहेव तह दंसणं पि पण्णत्तं । सागारग्गहणाहि य, नियमपरित्तं अणागारं ॥ १४ ॥ ६८ ॥ ' केवलनाणमणतं जहेव ' केवलज्ञानमनन्तार्थविषयकत्वादनन्तं यथैव ' तह दंसणं पि पण ' तथा दर्शनमपि केवलदर्शनमपि प्रज्ञप्तं अनन्तमित्यस्यावृच्याऽत्राप्यन्वयः । यदि केवलज्ञानकेवलदर्शनयोरेकत्वं न स्यात्तदाऽल्पविषयकत्वात् केवलदर्शनमनन्तं न स्यात्, तथा च 'अणते केवलनाणे अगते केवलदंसणे " इत्याद्यागमविरोधः प्रसज्येत । ननु केवलज्ञानात्केवलदर्शनस्य भेदे तदनन्तं न स्यादिति कुत इत्याशङ्कानिवृत्यर्थमुत्तरार्द्धमाह" सागारग्गहणाहि " इत्यादि । यतस्साकारग्रहणादनन्त विशेष प्राहिज्ञानात् " अणागारं ' अनाकारं सामान्य मात्रावलम्बि केवलदर्शनं ' नियमपरितं ' नियमेनैकान्तेनैव परीत. मल्पम् - अल्पविषयकं भवतीति विषयभेदात् कुतोऽनन्तता तस्य । युगपदुपयोगद्वयवादी तु दर्शनमनन्तं प्रज्ञप्तमित्यस्यां प्रतिज्ञायां ' सागारग्गहणाणि य नियमपरित्तं ' इत्यकारप्रश्लेषात् साकारे विशेषे गतं यत्सामान्यं तस्य यद्ग्रहणं दर्शनं तस्य नियमोऽवश्यम्भावस्तेनापरीतमपरिमाणमित्यर्थ करणेन साकारगतग्रहणनियमेनापरीतत्वादिति हेतुमभिधत्ते, यच्चापरीतं तदनन्तं यथा केवलज्ञानम्, अपरीतं च केवलदर्शनं तस्मात्तदनन्तम् । न च पक्षीभूते केवलदर्शने अपरीतत्वहेतोरभावात् स्वरूपासिद्धो हेतुरिति वाच्यम्, सामान्यविकलविशेषाणां प्रमाणागोचरत्वेन यावन्तो विशेषाः केवलज्ञाने प्रतिभासन्ते तावन्त्यखण्डसखण्डोपाधिरूपाणि जातिरूपाणि वा सामान्यानि केवलदर्शनेऽप्यवभासन्त एवेति नियमेन विशेषाणामानन्त्येन तत्समसङ्ख्यक सामान्यानामपि तथात्वादुक्तहेतुसिद्धेरिति भावः ॥ १४ ॥
अथ केवलज्ञानकेवलदर्शनयोः क्रमिकत्वाभ्युपगमे तयोरपर्यवसितत्वादिकं न स्यादित्यमेवाद्युक्तदूषणस्य क्रभवादिना पूर्वार्द्धन क्रियमाणं यत् समाधानमुत्तरार्द्धेन तत्प्रतिसमाधत्ते मेवादी
भण्णइ जह चउनाणी जुज्जइ णियमा तहेव एवं पि ।
भण्णइ ण पंचनाणी जहेव अरहा तहेयं पि ।। १५ ।। ३९ ।।
4
"
4
भण्णइ ' भण्यते - अभेदवाद्युक्तं पूर्वोक्तं दूषणं समाधीयते, क्रमवादिना जह यथा दृष्टान्तोपदर्शने, छाबस्थिकज्ञानव्यक्तीनामुपयोगापेक्षयोत्कृष्टतोऽप्यन्तर्मुहूर्त्त स्थितिकत्वेन परिणामवाद्यर्हन्मतेन मतिज्ञानाद्युपयोगानां श्रुतज्ञानाद्यपयोगरूपेण परिणमनात्
"Aho Shrutgyanam"